________________
उपमितौ
प. ५- प्र.
॥ ५१२ ॥
Jain Education
द्यापि प्रवर्तन्ते, सदाऽमी मूप ! जन्तवः ॥ १८२ ॥ कदाचिन पुनः प्राप्तं, विद्याजन्म मनोहरम् । नैतैर्विवेकतारुण्यं, न मृता भावमृत्युना ॥ १८३ ॥ जराजीर्णास्ततो भूप !, यावत्संसारजीविनः । जन्तवोऽनन्तदुःखालीवलीपलितसंगताः || १८४ ॥ बहिस्ते तरुणाकारे, धारयन्तोऽपि मानवाः । विज्ञेयास्तत्त्वतो भूप !, जराजीर्णकपोलकाः ॥ १८५ ॥ साधुभिर्भूपते ! लब्धं विद्याजन्म मनोहरम् । प्राप्तं विवेकतारुण्यं, दीक्षासम्भोगसुन्दरम् ॥ १८६ ॥ अप्राप्य तां जरां घोरां तारुण्ये वर्तमानकाः । तथा च ते मरिष्यन्ति, यथोत्पतिर्न जायते ॥ १८७ ॥ अतः सर्वे जराजीर्णा, ये भवे दीर्घजीविनः । सन्तस्तु यौवनारूढाः, कर्मनिर्दलनक्षमाः ॥ १८८ ॥ तथायतोऽमी देहिनो मूढा, रागसन्तापतापिताः । तेनोच्यन्ते मया भूप !, महाज्वरविबाधिताः ॥ १८९ ॥ सत्साधूनां पुनर्नैव, रागगन्धो|ऽपि विद्यते । ते बहिर्व्वरवन्तोऽपि विज्ञेयास्तेन विज्वराः ॥ १९० ॥ तथा — यत् कृत्यं सदनुष्ठानं, तन्न कुर्वन्ति मूढकाः । वारिता अपि कुर्वन्ति, पापानुष्ठानमञ्जसा ॥ १९९ ॥ ततोऽमी जगतीनाथ !, येऽपि पण्डितमानिनः । सोन्मादा इति विज्ञेयास्तेऽपि | मावेन देहिनः ॥ १९२ ॥ सदनुष्ठानरक्तानां साधूनां पुनरीदृशः । नोन्मादोऽस्ति धरानाथ !, तस्मात्ते शुद्धबुद्धयः ॥ १९३ ॥ जराजीर्णा रुजाक्रान्ताः, सोन्मादा इति तत्पुरा । यूयं नाहमिति प्रोक्तं सर्वमेतेन हेतुना ॥ १९४ ॥ तथा — पश्यन्तोऽपि विशालेन, चक्षुषा बहिरजसा । अन्तर्वसुन्धरानाथ !, कामान्धा मूढजन्तवः ॥ १९५ ॥ विकलाक्षा मया पूर्व, तेनामी परिकीर्तिताः । साधूनां विकलाक्षत्वं, कामजन्यं न विद्यते ॥ १९६ ॥ अतो यद्यपि दृश्यन्ते, ते बहिर्नष्टदृष्टयः । तथापि साधवो नैव, विकलाक्षा नराधिप ! ॥ १९७॥ तेनामी जन्तवः प्रोक्ता, विकलाक्षा मया पुरा । आत्मा प्रकाशितो भूप!, सज्जाक्षश्चारुलोचनः ॥ १९८ ॥ राजन्नेते परायत्ता, यथा गेहस्य जन्तवः । साधवंस्त्वपरायत्तास्तथा ते कथ्यतेऽधुना ॥ १९९ ॥ निःस्नेहं परमार्थेन, भिन्नकर्मविनिर्मितम् । इदं कलत्रपुत्रादि, च
For Private & Personal Use Only
बुधसुरिकथितं
संसारिस्वरूपं
॥ ५१२ ॥
www.jainelibrary.org