________________
बुधसुरि
उपमितौ प. ५-अ.
CROSOC
कथितं संसारि
॥५१॥
भवन्तः खेदनिःसहाः । अहं तु नेति राजेन्द्र!, मया पूर्व निवेदितम् ॥ १६४ ॥ तथा-क्रोधो मानस्तथा माया, लोभश्चेति चतुर्विधः। तापः संसारिणां भूप!, सर्वाङ्गीणः सुदारुणः ॥ १६५ ।। तेन दन्दह्यमानास्ते, तापार्ताः सततं मताः । यद्यपीह विलोक्यन्ते, चन्दनादिविलेपिताः ॥ १६६ ॥ साधवस्तु महाराज!, सततं शान्तमानसाः । निष्कषाया महात्मानो, निस्तापाः पापसूदनाः ॥ १६७ ॥ ततो यद्यपि दृश्यन्ते, ते बहिस्तापपीडिताः । तथापि परमार्थेन, विज्ञेयास्तापदूरगाः ॥ १६८ ॥ इदमेव मया ज्ञात्वा, यूयं तापार्दिताः पुरा । अहं तु नेति राजेन्द्र!, प्रतिज्ञातमशङ्कया ।। १६९ ॥ तथा—कुविकल्पकृमिस्थानं, मिथ्यात्वं भूप! देहिनाम् । गलदास्तिक्यजाम्बालं, कुष्ठमुक्तं मनीषिभिः ।। १० ।। विनाशयति तद्भूप!, सद्बुद्धिवरनासिकाम् । घर्घराव्यक्तघोषं च, नरं धत्ते मदोद्धतम् ॥ १७१॥ शमसंवेगनिर्वेदकारुण्यानि च मूलतः । हस्तपादसमान्येषां, शाटयत्येव देहिनाम् ॥ १७२ ॥ तेन मिथ्यात्वकुष्ठेन, विद्वदुद्वेगहेतुना । आक्रान्ताः पृथिवीनाथ!, सदाऽमी मूढजन्तवः ॥ १७३ ॥ ततो यद्यपि दृश्यन्ते, सर्वावयवसुन्दराः । तथापि भावतो ज्ञेयाः, कृमिजालक्षताङ्गकाः ॥ १७४ ॥ सम्यग्भावेन पूतानां, मुनीनां पुनरीदृशम् । कुष्ठं नास्त्येव तेनामी, सर्वावयवसुन्दराः ॥ १७५ ॥ ततश्व-कथञ्चिदपि यद्येते, बहिः कुष्ठसमन्विताः । भवेयुर्भावतो भूप!, तथापि न तथाविधाः ॥ १७६ ॥ अत एव मया पूर्वमिदमालोच्य कार
णम् । तथोक्ताः कुष्ठिनो यूयं, नाहं कुष्ठीति चोदितम् ॥ १७७ ॥ तथा-परेषु द्वेषदुष्टानां, समृद्धिं वीक्ष्य देहिनाम् । ईर्ष्या या जायते & भूप!, सा शूलमभिधीयते ॥ १७८ ।। ईर्ष्याशूलेन चाक्रान्ताः, परेषां व्यसने क्षमाः । द्वेषाध्माताः प्रकुर्वन्ति, वक्रभङ्ग पुनः पुनः |
॥ १७९ ॥ तच्च नास्ति महाशूलं, मुनीनां धरणीपते! । सर्वत्र समचित्तास्ते, वीतद्वेषा हि साधवः ॥ १८० ॥ इदं कारणमाश्रित्य, शूलाक्रान्ताः पुरा मया । यूयमुक्तास्तथाऽऽत्मा च, शूलहीनः प्रकाशितः॥ १८१॥ अनादिभवचक्रेऽत्र, यथाभूताः कथञ्चन । तथा
CARAMSAROSAROSAROSAX
॥५११॥
Jain Education
For Private
Personel Use Only
w
.jainelibrary.org