SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ बुधसुरि कथितं संसारिस्वरूपं उपमितौ | विधाः ॥ १४५॥ तथा-संप्राप्तैरपि नो तृप्तिर्विषयैर्या नराधिप! । विद्वद्भिः परमार्थेन, सा बुभुक्षा प्रकीर्तिता ॥ १४६॥ तया बुभु-18 प. ५-अ. क्षिताः सर्वे, भुवनोदरचारिणः । अमी वराकाः सद्धर्मविकला मूढजन्तवः ॥ १४७ ॥ ते हि यद्यपि दृश्यन्ते, तृप्ताः संपूरितोदराः। तथापि तत्त्वतो ज्ञेया, बुभुक्षाक्षामितोदराः ॥ १४८ ॥ साधवस्तु महात्मानः, सदा सन्तोषपोषिताः । न पीडितास्तया भूप!, भीमभा॥५१०॥ वबुभुक्षया ॥ १४९ ॥ तेन यद्यपि दृश्यन्ते, विरिक्तजठराः परम् । तथापि तत्त्वतो ज्ञेयास्ते तृप्ताः स्वस्थमानसाः॥१५०॥ इदं कारWणमालोच्य, बुभुक्षार्ताः पुरा मया । यूयमुक्ता धरानाथ !, तृप्तश्चात्मा प्रकाशितः ॥ १५१ ॥ तथा—अनागतेषु भोगेषु, योऽभिलाषो| नराधिप! । सा पिपासेति विज्ञेया, भावकण्ठस्य शोषणी ॥ १५२ ॥ तया पिपासिताः सर्वे, पिबन्तोऽप्युदकं जनाः । ये केचिद्रूप!| दृश्यन्ते, जैनधर्मबहिष्कृताः॥ १५३ ॥ मुनयस्तु सदा धन्या, भाविभोगेषु निःस्पृहाः । तेनोदकं विनाऽप्येते, पिपासादूरवर्तिनः | ॥ १५४ ॥ अतः पिपासिता यूयमहं तु न तृषार्दितः । मयेदं कारणं मत्वा, पुरा राजन्निवेदितम् ॥ १५५ ॥ तथा—अलब्धमूलपर्यन्तो 18 दोषचौरशताकुलः । विषमो विषयव्यालो, दुःखधूल्या प्रपूरितः ॥ १५६ ॥ अयं नरेन्द्र ! संसारो, विद्वद्भिर्भावचक्षुषा । अध्वा निरी-I दक्षितो घोरः, खेदहेतुः शरीरिणाम् ॥ १५७ ॥ युग्मम् । एते च सततं जीवा, गृहीत्वा कर्मशम्बलम् । वहन्तो भवमार्गेऽत्र, न कुर्वन्त्यु- त्प्रयाणकम् ॥ १५८ ॥ तेनामी जैनसद्धर्मरहिता मूढजन्तवः । संसाराध्वमहाखेदखेदिताः सततं मताः ।। १५९ ॥ ततो यद्यपि दृश्यसन्ते, गृहे शीतलमण्डपे । तथापि तत्त्वतो ज्ञेया, गच्छन्तः पथि ते सदा ॥ १६० ।। मुनयस्तु सदा भूप!, विवेकवरपर्वते । आरूढाः सतताहादे, वर्तन्ते जैनसत्पुरे ॥ १६१ ॥ तत्र चित्तसमाधानं, मण्डपं हिमशीतलम् । आसाद्य निर्वृतात्मानस्तिष्ठन्ति विगतश्रमाः | ॥ १६२ ॥ ततो यद्यपि दृश्यन्ते, ते बहिः खेदनिःसहाः । विज्ञेयाः खेदनिर्मुक्तास्तथापि परमार्थतः ॥ १६३ ॥ तदिदं कारणं मत्वा, RRRRRRR ॥५१०॥ Jain Education Inter For Private & Personel Use Only alwwjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy