SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ बुधसुरि कथितं संसारिस्वरूपं उपमितौ | विधाः ॥ १४५॥ तथा-संप्राप्तैरपि नो तृप्तिर्विषयैर्या नराधिप! । विद्वद्भिः परमार्थेन, सा बुभुक्षा प्रकीर्तिता ॥ १४६॥ तया बुभु-18 प. ५-अ. क्षिताः सर्वे, भुवनोदरचारिणः । अमी वराकाः सद्धर्मविकला मूढजन्तवः ॥ १४७ ॥ ते हि यद्यपि दृश्यन्ते, तृप्ताः संपूरितोदराः। तथापि तत्त्वतो ज्ञेया, बुभुक्षाक्षामितोदराः ॥ १४८ ॥ साधवस्तु महात्मानः, सदा सन्तोषपोषिताः । न पीडितास्तया भूप!, भीमभा॥५१०॥ वबुभुक्षया ॥ १४९ ॥ तेन यद्यपि दृश्यन्ते, विरिक्तजठराः परम् । तथापि तत्त्वतो ज्ञेयास्ते तृप्ताः स्वस्थमानसाः॥१५०॥ इदं कारWणमालोच्य, बुभुक्षार्ताः पुरा मया । यूयमुक्ता धरानाथ !, तृप्तश्चात्मा प्रकाशितः ॥ १५१ ॥ तथा—अनागतेषु भोगेषु, योऽभिलाषो| नराधिप! । सा पिपासेति विज्ञेया, भावकण्ठस्य शोषणी ॥ १५२ ॥ तया पिपासिताः सर्वे, पिबन्तोऽप्युदकं जनाः । ये केचिद्रूप!| दृश्यन्ते, जैनधर्मबहिष्कृताः॥ १५३ ॥ मुनयस्तु सदा धन्या, भाविभोगेषु निःस्पृहाः । तेनोदकं विनाऽप्येते, पिपासादूरवर्तिनः | ॥ १५४ ॥ अतः पिपासिता यूयमहं तु न तृषार्दितः । मयेदं कारणं मत्वा, पुरा राजन्निवेदितम् ॥ १५५ ॥ तथा—अलब्धमूलपर्यन्तो 18 दोषचौरशताकुलः । विषमो विषयव्यालो, दुःखधूल्या प्रपूरितः ॥ १५६ ॥ अयं नरेन्द्र ! संसारो, विद्वद्भिर्भावचक्षुषा । अध्वा निरी-I दक्षितो घोरः, खेदहेतुः शरीरिणाम् ॥ १५७ ॥ युग्मम् । एते च सततं जीवा, गृहीत्वा कर्मशम्बलम् । वहन्तो भवमार्गेऽत्र, न कुर्वन्त्यु- त्प्रयाणकम् ॥ १५८ ॥ तेनामी जैनसद्धर्मरहिता मूढजन्तवः । संसाराध्वमहाखेदखेदिताः सततं मताः ।। १५९ ॥ ततो यद्यपि दृश्यसन्ते, गृहे शीतलमण्डपे । तथापि तत्त्वतो ज्ञेया, गच्छन्तः पथि ते सदा ॥ १६० ।। मुनयस्तु सदा भूप!, विवेकवरपर्वते । आरूढाः सतताहादे, वर्तन्ते जैनसत्पुरे ॥ १६१ ॥ तत्र चित्तसमाधानं, मण्डपं हिमशीतलम् । आसाद्य निर्वृतात्मानस्तिष्ठन्ति विगतश्रमाः | ॥ १६२ ॥ ततो यद्यपि दृश्यन्ते, ते बहिः खेदनिःसहाः । विज्ञेयाः खेदनिर्मुक्तास्तथापि परमार्थतः ॥ १६३ ॥ तदिदं कारणं मत्वा, RRRRRRR ॥५१०॥ Jain Education Inter For Private & Personel Use Only alwwjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy