________________
उपमितौ
बुधसुरि
M
कधितं संसारिस्वरूपं
॥५०९॥
SASSASSASA
तिनः । अस्माकं भवताऽऽदिष्टाः, किं वा संचिन्त्य कारणम् ? ॥ १२७ ॥ कथं वा क्षणमात्रेण, दिव्यरूपधरः परः । भगवन्नाथ ! संपन्नो?, मादृशां कृतविस्मयः ॥ १२८ ॥ तदिदं मे प्रसादेन, सर्व नाथ ! निवेदय । ममोत्पन्नं मनोमध्ये, महदत्र कुतूहलम् ॥ १२९॥ मुनिराह महाराज!, कृत्वा मध्यस्थमानसम् । कथ्यमानमिदं सर्व, समाकर्णय साम्प्रतम् ॥ १३०॥ इदं विरचितं पूर्व, मया रूपं नरेश्वर! । निदर्शनार्थ जीवानां, संसारोदरवर्तिनाम् ॥ १३१ ॥ यतः-एवंभूता इमे सर्वे, जीवाः संसारवर्तिनः । तथापि न विजा-
नन्ति, स्वरूपं मूढमानसाः ॥ १३२ ॥ अतोऽमीषां प्रबोधार्थ, तादृग् बीभत्सदर्शनम् । दृष्टान्तभूतं भूतानां, रूपं भूत(प!)निरूपितम् & ॥ १३३ ॥ मुनिवेषधरं तच्च, यन्मया भूप! निर्मितम् । कृष्णवर्णादयो दोषा, युष्माकं ये च योजिताः ॥ १३४ ॥ तत्रापि कारणं भूपः,
वर्ण्यमानं मया स्फुटम्। विधाय निपुणां बुद्धि, धीर! चित्तेऽवधारय ।।१३५॥ युग्मम् ॥ मुनयो ये महात्मानो, बुद्धाः सर्वज्ञदर्शने। तपःसंयमयोगेन, क्षालिताखिलकल्मषाः ॥ १३६ ॥ ते कृष्णवर्णा बीभत्साः, क्षुत्पिपासादिपीडिताः । कुष्ठिनोऽपि बहिर्भूप!, सुन्दराः परमार्थतः ॥ १३७ ॥ एते तु लोका राजेन्द्र!, ये सद्धर्मबहिष्कृताः । गृहस्थाः पापनिरताः, विषयामिषगृभ्रवः ॥ १३८ ॥ एते यद्यपि दृश्यन्ते, नीरोगाः सुखनिर्भराः । तथापि तत्त्वतो ज्ञेया, दुःखिता रोगपीडिताः ॥ १३९ ॥ किं च-कृष्णवर्णादयो दोषा, गृहिणां सन्ति ते यथा । तथा न सन्ति साधूनां, तदिदं ते निवेद्यते ॥ १४० ॥ बहिः कनकवर्णोऽपि, पण्डितैः परमार्थतः । अन्तः पापतमोलिप्तः, कष्णवर्णोऽभिधीयते ॥ १४१॥ बहिरङ्गारवर्णोऽपि, चित्ते स्फटिकनिर्मलः । नरो विचक्षणैर्भूप!, वर्णवर्णोऽभिधीयते ॥ १४२ ॥ एवं च कृष्णवर्णोऽपि, साधुः संशुद्धमानसः । विज्ञेयः परमार्थेन, स्वर्णवर्णो मराधिप! ॥ १४३ ॥ गृहस्थस्तु सदा भूप!, पापारम्भपरायणः । हेमावदातदेहोऽपि, विज्ञेयः कृष्णवर्णकः ॥ १४४ ॥ अनेन परमार्थेन, मयोक्तमिदमजसा । -- कृष्णवर्णोऽहं लोका!, यूयमेव तथा
मा॥५०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org