SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ उपमितौ बुधसुरि M कधितं संसारिस्वरूपं ॥५०९॥ SASSASSASA तिनः । अस्माकं भवताऽऽदिष्टाः, किं वा संचिन्त्य कारणम् ? ॥ १२७ ॥ कथं वा क्षणमात्रेण, दिव्यरूपधरः परः । भगवन्नाथ ! संपन्नो?, मादृशां कृतविस्मयः ॥ १२८ ॥ तदिदं मे प्रसादेन, सर्व नाथ ! निवेदय । ममोत्पन्नं मनोमध्ये, महदत्र कुतूहलम् ॥ १२९॥ मुनिराह महाराज!, कृत्वा मध्यस्थमानसम् । कथ्यमानमिदं सर्व, समाकर्णय साम्प्रतम् ॥ १३०॥ इदं विरचितं पूर्व, मया रूपं नरेश्वर! । निदर्शनार्थ जीवानां, संसारोदरवर्तिनाम् ॥ १३१ ॥ यतः-एवंभूता इमे सर्वे, जीवाः संसारवर्तिनः । तथापि न विजा- नन्ति, स्वरूपं मूढमानसाः ॥ १३२ ॥ अतोऽमीषां प्रबोधार्थ, तादृग् बीभत्सदर्शनम् । दृष्टान्तभूतं भूतानां, रूपं भूत(प!)निरूपितम् & ॥ १३३ ॥ मुनिवेषधरं तच्च, यन्मया भूप! निर्मितम् । कृष्णवर्णादयो दोषा, युष्माकं ये च योजिताः ॥ १३४ ॥ तत्रापि कारणं भूपः, वर्ण्यमानं मया स्फुटम्। विधाय निपुणां बुद्धि, धीर! चित्तेऽवधारय ।।१३५॥ युग्मम् ॥ मुनयो ये महात्मानो, बुद्धाः सर्वज्ञदर्शने। तपःसंयमयोगेन, क्षालिताखिलकल्मषाः ॥ १३६ ॥ ते कृष्णवर्णा बीभत्साः, क्षुत्पिपासादिपीडिताः । कुष्ठिनोऽपि बहिर्भूप!, सुन्दराः परमार्थतः ॥ १३७ ॥ एते तु लोका राजेन्द्र!, ये सद्धर्मबहिष्कृताः । गृहस्थाः पापनिरताः, विषयामिषगृभ्रवः ॥ १३८ ॥ एते यद्यपि दृश्यन्ते, नीरोगाः सुखनिर्भराः । तथापि तत्त्वतो ज्ञेया, दुःखिता रोगपीडिताः ॥ १३९ ॥ किं च-कृष्णवर्णादयो दोषा, गृहिणां सन्ति ते यथा । तथा न सन्ति साधूनां, तदिदं ते निवेद्यते ॥ १४० ॥ बहिः कनकवर्णोऽपि, पण्डितैः परमार्थतः । अन्तः पापतमोलिप्तः, कष्णवर्णोऽभिधीयते ॥ १४१॥ बहिरङ्गारवर्णोऽपि, चित्ते स्फटिकनिर्मलः । नरो विचक्षणैर्भूप!, वर्णवर्णोऽभिधीयते ॥ १४२ ॥ एवं च कृष्णवर्णोऽपि, साधुः संशुद्धमानसः । विज्ञेयः परमार्थेन, स्वर्णवर्णो मराधिप! ॥ १४३ ॥ गृहस्थस्तु सदा भूप!, पापारम्भपरायणः । हेमावदातदेहोऽपि, विज्ञेयः कृष्णवर्णकः ॥ १४४ ॥ अनेन परमार्थेन, मयोक्तमिदमजसा । -- कृष्णवर्णोऽहं लोका!, यूयमेव तथा मा॥५०९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy