SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ उपमिती ॥५०७॥ "त्सल! | नमस्ते मूढजन्तूनां, सम्बोधकरणे पटो!॥ ९५ ॥ अज्ञानापारनीरेशसन्तारणपरायण! । स्वागतं ते महाभाग!, चारु चारु बुधसुरित्वया कृतम् ।। ९६ ॥ युग्मम् ।। इति भगवताऽपि मनसैवाभिहितं-संसारसागरोत्तारी, सर्वकल्याणकारकः । स्वकार्यसिद्धये कथितं भद्र!, धर्मलाभोऽस्तु तेऽनघः॥ ९७ ॥ अत्रान्तरे हिमभवनमध्ये प्रवेशितः स राजपुरुषैः पुरुषः, स च खेदनिःसहतया द्राटकृत्य संसारिनिषण्णो भूतले प्रचलायितुं प्रवृत्तः, ततस्तं तादृशमवलोक्य केचिदुपहसन्ति केचिच्छोचन्ति केचिनिन्दन्ति केचिद्वधीरयन्ति, तथाऽन्ये स्वरूपं | परस्परं जल्पन्ति, यदुत-दुःखी दीनो रुजाक्रान्तः, श्रान्तः क्लान्तो बुभुक्षितः । एष प्रेक्षणकप्रायः, समायातो नराधमः ॥ ९८॥ कानीतः केन वाऽऽनीतः?, किञ्चिदेष सुदुःखितः । न वराको विजानीते, केवलं प्रचलायते ॥ ९९ ॥ एतच्चाकर्ण्य तेन रूपान्तरवर्तिना बुधसूरिणा किं कृतम्?—प्रदीपभास्वरौ कृत्वा, लसन्तावक्षिगोलको । कोपाटोपात्तदास्थानं, ज्वलदेव निरीक्षितम् ॥ १०० ॥ उक्तं चआः पापाः! किमहं जातो, युष्मत्तोऽपि विरूपकः? । दुःखितो वा ? यतो यूयं, मामेवं हसथाधमाः ॥ १०१॥ कृष्णवर्णा बुभुक्षार्तास्तृष्णार्ताः खेदनिःसहाः । तापार्ताः कुष्ठिनो यूयं, नाहं भो मूढमानवाः! ॥ १०२ ॥ शूलाक्रान्ता जराजीर्णा, महाज्वरविबाधिताः। | सोन्मादा विकलाक्षाश्च, यूयं नाहं नराधमाः! ॥ १०३ ॥ यूयमेव परायत्ता, यूयमेव ऋणार्दिताः । यूयं च प्रचलायध्वे, नाहं भो मूढमानवाः! ॥ १०४ ॥ हे पापाः! कलिता यूयं, नूनं कालेन बालिशाः । मुनिं मां दुर्बलं मत्वा, तेनैवं हसथाधुना ॥ १०५ ॥ अथ तौ भास्कराकारौ, दृष्ट्वा तस्याक्षिगोलको । जाज्वल्यमानौ सहसा, प्रकाशितदिगन्तरौ ॥ १०६ ॥ जिह्वां च विद्युदाभासां, दन्तपति च भाखराम् । दृष्ट्वा श्रुत्वा च तां वाचं, जगतः कम्पकारिणीम् ।। १०७ ॥ क्षणादेव तदास्थानं, भीतकम्पितमानसम् । संजातं सिंहनादेन, 8॥५०७॥ यथा हरिणयूथकम् ॥ १०८ ॥ ततो धवलराजेन, विमलं प्रति भाषितम् । —कुमार! नैष कोऽपीह, नरः प्रकृतिमानुषः ॥ १०९॥ Jain Education i n For Private & Personel Use Only Vinaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy