SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ उपमिती ॥५०७॥ "त्सल! | नमस्ते मूढजन्तूनां, सम्बोधकरणे पटो!॥ ९५ ॥ अज्ञानापारनीरेशसन्तारणपरायण! । स्वागतं ते महाभाग!, चारु चारु बुधसुरित्वया कृतम् ।। ९६ ॥ युग्मम् ।। इति भगवताऽपि मनसैवाभिहितं-संसारसागरोत्तारी, सर्वकल्याणकारकः । स्वकार्यसिद्धये कथितं भद्र!, धर्मलाभोऽस्तु तेऽनघः॥ ९७ ॥ अत्रान्तरे हिमभवनमध्ये प्रवेशितः स राजपुरुषैः पुरुषः, स च खेदनिःसहतया द्राटकृत्य संसारिनिषण्णो भूतले प्रचलायितुं प्रवृत्तः, ततस्तं तादृशमवलोक्य केचिदुपहसन्ति केचिच्छोचन्ति केचिनिन्दन्ति केचिद्वधीरयन्ति, तथाऽन्ये स्वरूपं | परस्परं जल्पन्ति, यदुत-दुःखी दीनो रुजाक्रान्तः, श्रान्तः क्लान्तो बुभुक्षितः । एष प्रेक्षणकप्रायः, समायातो नराधमः ॥ ९८॥ कानीतः केन वाऽऽनीतः?, किञ्चिदेष सुदुःखितः । न वराको विजानीते, केवलं प्रचलायते ॥ ९९ ॥ एतच्चाकर्ण्य तेन रूपान्तरवर्तिना बुधसूरिणा किं कृतम्?—प्रदीपभास्वरौ कृत्वा, लसन्तावक्षिगोलको । कोपाटोपात्तदास्थानं, ज्वलदेव निरीक्षितम् ॥ १०० ॥ उक्तं चआः पापाः! किमहं जातो, युष्मत्तोऽपि विरूपकः? । दुःखितो वा ? यतो यूयं, मामेवं हसथाधमाः ॥ १०१॥ कृष्णवर्णा बुभुक्षार्तास्तृष्णार्ताः खेदनिःसहाः । तापार्ताः कुष्ठिनो यूयं, नाहं भो मूढमानवाः! ॥ १०२ ॥ शूलाक्रान्ता जराजीर्णा, महाज्वरविबाधिताः। | सोन्मादा विकलाक्षाश्च, यूयं नाहं नराधमाः! ॥ १०३ ॥ यूयमेव परायत्ता, यूयमेव ऋणार्दिताः । यूयं च प्रचलायध्वे, नाहं भो मूढमानवाः! ॥ १०४ ॥ हे पापाः! कलिता यूयं, नूनं कालेन बालिशाः । मुनिं मां दुर्बलं मत्वा, तेनैवं हसथाधुना ॥ १०५ ॥ अथ तौ भास्कराकारौ, दृष्ट्वा तस्याक्षिगोलको । जाज्वल्यमानौ सहसा, प्रकाशितदिगन्तरौ ॥ १०६ ॥ जिह्वां च विद्युदाभासां, दन्तपति च भाखराम् । दृष्ट्वा श्रुत्वा च तां वाचं, जगतः कम्पकारिणीम् ।। १०७ ॥ क्षणादेव तदास्थानं, भीतकम्पितमानसम् । संजातं सिंहनादेन, 8॥५०७॥ यथा हरिणयूथकम् ॥ १०८ ॥ ततो धवलराजेन, विमलं प्रति भाषितम् । —कुमार! नैष कोऽपीह, नरः प्रकृतिमानुषः ॥ १०९॥ Jain Education i n For Private & Personel Use Only Vinaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy