SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ बुधसुरिकथितं संसारिस्वरूपं उपमिती ब्रुवाणो गन्तुं प्रवृत्तः, ततश्चिन्तितमस्माभिः-अरे! सोन्माद इवायं दुरात्मा तथापि कर्तव्यं राजशासनं नेतन्योऽयं देवसमीपमित्याक लय्यानीतोऽस्माभिरिति, धवलराजेनोक्तं-महत्कुतूहलं मे पश्याम्येनं अपनयत जवनिकामिति, ततोऽपनीता तैर्जवनिका दृष्टो यथानि-1 र्दिष्टस्वरूपः पुरुषः विस्मितः सपरिवारो राजा, विमलेन चिन्तितं-अये! समागतः स एष भगवान् बुधसूरिः, अहो भगवतो वैक्रिय॥५०६॥ 14रूपकरणातिशयः अहो ममोपरि करुणा अहो परोपकारकरणैकरसत्वं अहो स्वसुखकार्यनिरपेक्षता अहो निर्व्याजसौजन्यातिरेक इति. ल तथाहि-स्वकार्यमवधीव, परकार्ये कृतोद्यमाः । भवन्ति सततं सन्तः, प्रकृत्यैव न संशयः॥ ८६ ॥ अथवा-स्वकार्य| मिदमेतेषां, यत्परार्थे प्रवर्तनम् । भानोः किं किञ्चिदस्त्यन्यल्लोकोद्योताहतेः फलम् ॥ ८७ ॥ अथवा-निजे सत्यपि सा धूनां, कार्ये नैवादरः क्वचित् । सलाञ्छनो जगद्द्योती, दृष्टान्तोऽत्र निशाकरः॥ ८८ ॥ नाभ्यर्थिताः प्रवर्तन्ते, परकायें |महाधियः। केन हि प्रार्थिता लोके, वृष्टये धीर! नीरदाः? ॥ ८९ ॥ स्वप्नेऽपि न स्वदेहस्य, सुखं वाञ्छन्ति साधवः। क्लिश्यन्ते यत्परार्थे ते, सैव तेषां सुखासिका ॥ ९० ॥ यथाऽग्निदोहपाकाय, जीवनाय यथाऽमृतम् । स्वभावेन तथा लोके, परार्था साधुसंहतिः॥ ९१ ॥ कथं ते नामृतं सन्तो?, ये परार्थपरायणाः। तृणायापि न मन्यन्ते, ससुखे धनजीविते ॥ ९२ ।। इत्येवं ते महात्मानः, परार्थे कृतनिश्चयाः । आत्मनोऽपि भवन्त्येव, नूनं सिद्धप्रयोजनाः ॥ ९३ ॥ अष्टभिः कुलकम् । तदेष भगवानेवं, रूपमास्थाय वैक्रियम् । बोधनार्थ समायातो, मद्वन्धूनां कृतोद्यमः ॥ ९४ ॥ संदिष्टं चानेन मम भगवता रत्नचूडस्य हस्ते यथाऽहमागमिष्यामि रूपान्तरेण भवता च दुःखितसत्त्वान्वेषणं कार्य न चाहं विज्ञातोऽपि वन्दनीयः न तावदात्मा परैर्लक्षयितव्यो भवता यावत्स्वार्थसिद्धिर्न संपन्नेति, ततः कृतो विमलेन बुधसूरेनिसिको नमस्कारः, कथं ? "नमस्ते ज्ञातसद्भाव!, नमस्ते भव्यव-14 ॥५०६॥ Jain Education Internal For Private & Personel Use Only plainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy