________________
बुधसुरिकथितं संसारिस्वरूपं
उपमिती ब्रुवाणो गन्तुं प्रवृत्तः, ततश्चिन्तितमस्माभिः-अरे! सोन्माद इवायं दुरात्मा तथापि कर्तव्यं राजशासनं नेतन्योऽयं देवसमीपमित्याक
लय्यानीतोऽस्माभिरिति, धवलराजेनोक्तं-महत्कुतूहलं मे पश्याम्येनं अपनयत जवनिकामिति, ततोऽपनीता तैर्जवनिका दृष्टो यथानि-1
र्दिष्टस्वरूपः पुरुषः विस्मितः सपरिवारो राजा, विमलेन चिन्तितं-अये! समागतः स एष भगवान् बुधसूरिः, अहो भगवतो वैक्रिय॥५०६॥
14रूपकरणातिशयः अहो ममोपरि करुणा अहो परोपकारकरणैकरसत्वं अहो स्वसुखकार्यनिरपेक्षता अहो निर्व्याजसौजन्यातिरेक इति. ल तथाहि-स्वकार्यमवधीव, परकार्ये कृतोद्यमाः । भवन्ति सततं सन्तः, प्रकृत्यैव न संशयः॥ ८६ ॥ अथवा-स्वकार्य| मिदमेतेषां, यत्परार्थे प्रवर्तनम् । भानोः किं किञ्चिदस्त्यन्यल्लोकोद्योताहतेः फलम् ॥ ८७ ॥ अथवा-निजे सत्यपि सा
धूनां, कार्ये नैवादरः क्वचित् । सलाञ्छनो जगद्द्योती, दृष्टान्तोऽत्र निशाकरः॥ ८८ ॥ नाभ्यर्थिताः प्रवर्तन्ते, परकायें |महाधियः। केन हि प्रार्थिता लोके, वृष्टये धीर! नीरदाः? ॥ ८९ ॥ स्वप्नेऽपि न स्वदेहस्य, सुखं वाञ्छन्ति साधवः। क्लिश्यन्ते यत्परार्थे ते, सैव तेषां सुखासिका ॥ ९० ॥ यथाऽग्निदोहपाकाय, जीवनाय यथाऽमृतम् । स्वभावेन तथा लोके, परार्था साधुसंहतिः॥ ९१ ॥ कथं ते नामृतं सन्तो?, ये परार्थपरायणाः। तृणायापि न मन्यन्ते, ससुखे धनजीविते ॥ ९२ ।। इत्येवं ते महात्मानः, परार्थे कृतनिश्चयाः । आत्मनोऽपि भवन्त्येव, नूनं सिद्धप्रयोजनाः ॥ ९३ ॥ अष्टभिः कुलकम् । तदेष भगवानेवं, रूपमास्थाय वैक्रियम् । बोधनार्थ समायातो, मद्वन्धूनां कृतोद्यमः ॥ ९४ ॥ संदिष्टं चानेन मम भगवता रत्नचूडस्य हस्ते यथाऽहमागमिष्यामि रूपान्तरेण भवता च दुःखितसत्त्वान्वेषणं कार्य न चाहं विज्ञातोऽपि वन्दनीयः न तावदात्मा परैर्लक्षयितव्यो भवता यावत्स्वार्थसिद्धिर्न संपन्नेति, ततः कृतो विमलेन बुधसूरेनिसिको नमस्कारः, कथं ? "नमस्ते ज्ञातसद्भाव!, नमस्ते भव्यव-14
॥५०६॥
Jain Education Internal
For Private & Personel Use Only
plainelibrary.org