________________
बुधसुरि
कथितं
संसारिस्वरूपं
उपमितौ
कितः ॥ ८३ ॥ युग्मम् ॥ ततोऽयं दुःखित इतिकृत्वा दूरादुश्चैरभिहितोऽस्माभिः यदुत-भो भो मत ! तिष्ठ सिष्ठेति, अनेमोक्तं-भो ५
भद्राः! स्थितोऽहं यूयं तिष्ठतेति ब्रुवाणो गन्तुं प्रवृत्तः, ततो मया गत्वा वेगेन बलादानीतोऽयं महातरुमूले, निरूपितः सर्वै राजपुरुषैः या
नवद् “दवदग्धस्थाणुरिवातिकृष्णो वर्णेन बुभुक्षाक्षामेणोदरेण पिपासाशोषितेनाधरोष्ठेन अध्वखेदनिःसहेनाङ्गेन बहिरन्तस्तापसूचकेन खेदजलेन ॥५०५॥
"कुष्ठेन गलता कृमिजालोल्बणेन देहेन अन्तःशूलनिवेदकैर्मुखभङ्गैः प्रकम्पमानया जराजीर्णकपोलया गात्रयष्ट्या महाज्वरसूचकेन दी|"रुणनिःश्वासजालेम मलाविलेनाथुगलनाविकलेन लोचनयुगलेन प्रविष्टया नासिकया शटितप्रायैः करचरणैरभिनवलुचितेन मस्तकेना"यन्तमलिनैश्चीवरखण्डैर्ललमानेन कम्बलेन गृहीतेन सदण्डेनालाबुद्वयेन करतलावलम्बिनौर्णिकपिच्छेन” सर्वथा-निधानं सर्वदुःखाना, दारिद्यस्य परा गतिः । अयमेवेति सर्वेषां, तदाऽस्माकं हृदि स्थितम् ॥ ८४ ॥ एनं वीक्ष्य नरं नाथ!, गाढं बीभत्सदर्शनम् । चिन्तितं च तदाऽस्माभिः, सोऽयं प्रत्यक्षनारकः ॥ ८५ ॥ ततोऽभिहितोऽस्माभिः-भद्र! किमित्येवंविधे मध्याह्ने बम्भ्रमीषि ? किमिति शीतलच्छायायामुपविष्टः सुखासिकया न तिष्ठसीति !, अनेनोक्तं-भद्रा! न खल्वहं स्वायत्तोऽस्मि गुरोरादेशेन पर्यटामि तदायत्तोऽहं, अस्मामिश्चिन्तितं-अये ! परवशोऽयं वराकः अहो कष्टमिदमस्य महत्तरं दुःखकारणं यदीदृशावस्थस्यापि पराधीनत्वं माम, ततोऽभिहितमस्माभिः-भद्र ! किं पुनरेवमहर्निशमादेशं कुर्वतस्ते स गुरुः करिष्यति?, अनेनोक्तं-भद्राः! सन्ति मम कृतान्तसदृशा बलिनोऽष्टाव|णिकाः तेभ्यो प्रन्थिदानेन मां मोचयिष्यति, ततोऽस्माभिश्चिन्तितं-अहो कष्टप्तरमिदमस्य वराकस्य महत्तमं दुःखकारणं यदेवंविधाव
स्वस्यापि दानग्रहणं तन्मोचनदुराशा चेति, सर्वथा नातः परतरो दुःखी जगति लभ्यते, ततोऽस्मामिरुक्तं-भद्र ! प्रवर्तस्व गच्छ राज- है. भ. ४३
कुले येन ते सर्वदुःखदारियऋणविमोक्षः क्रियते, अनेनोक्तं-अलं भवतां मदीयचिम्तया, म खलु भवाशैर्मोचितो मुच्येऽहमिति
५.५॥
Jan Education Intel
For Private
Personal use only
lainelibrary.org