________________
उपमितौ
प. ५-प्र.
॥ ५०४ ॥
Jain Education
ल्पितानि शिशिरसुखदमृदून्यासनानि प्रवेशितः सह लोकसमूहेन विमलकुमारः, ततः समस्तेनापि जनसमुदयेन सहित एव विलिप्तः सरसचन्दनेन गुण्डितः कर्पूररेणुना मालितः सुरभिपाटलादामभिर्विराजितो मल्लिकाकुसुमस्तबकैरालिङ्गितः स्थूलमुक्ताफलकलापेन निवसितः सूक्ष्मकोमलवसनैर्वीज्यमानः शिशिरबिन्दुवर्षिभिस्तालवृन्तैर्लालितः खादुकोमलेनाहारेण प्रीत इव सुरभिताम्बूलेन प्रमोदित इव | मनोहारिका कलिगीतेन सानन्द इव विविधकरणाङ्गहारहारिणा नृत्तेन साहाद इव ललितविलासिनीलोककुवलयदललोललोचनमालावलोकनेन प्रविष्ट इव सह लोकेनावगाहितुं रतिसागरं, तदेवं जननीजनकयोः प्रमोदसन्दोहदानार्थं सर्वेषामपि लोकानामात्मनोऽप्यधिकतरं बहि:सुखं संपादयन्नासितुं प्रवृत्तो विमलकुमारः, प्रवेशयन्ति च यथादर्श राजादेशेन नियुक्तपुरुषाः दुःखदौर्गत्योपहतं तत्र लोकं, ततः क्रियते तेषां दुःखापनोदः संपाद्यते चानन्दातिरेक इति, एवं च - नृपतोषविधायिविलासकरे, सुखसागरवर्तिनि राज्यधरे । अथ तत्र सुते सुभगे विमले, प्रमदः क्रियते नगरे सकले ॥ ८१ ॥ एवं चानन्दिते राजनि तुष्टायां महादेव्यां प्रमुदिते सकले जने विमलसुखसागराव - गाहनेन प्रविष्टाः केचिन्नियुक्तपुरुषास्तत्र हिमगृहे दत्ता तैरन्तरा जवनिका तया च व्यवहितमेकं पुरुषं संस्थाप्य कृतप्रणामैर्विज्ञापितं तैः, तथा — देव ! देवादेशेन विचरद्भिरस्माभिर्दृष्टोऽयमत्यन्तदुःखितः पुरुषः समानीतश्च देवसमीपं न चैष गाढबीभत्सतया देवदर्शनयोग्य | इति मत्वा जवनिकया व्यवहितोऽस्माभिरिह प्रवेशित इत्येतदाकर्ण्य देवः प्रमाणं, धवलराजेनोक्तं भो भद्राः ! क दृष्टोऽयं युष्माभि: ? कथं चात्यन्तदुःखित इति, ततोऽभिहितमेकेन – देव ! अस्ति तावदितो निर्गता वयं देवादेशेन दुःखदारिद्र्योपहतलोकानयनार्थं, निरूपितं नगरं, यावद्दृष्टं समस्तमपि तत्सततानन्दं, ततो गता वयमरण्ये, यावद्दृष्टो दूरादयं पुरुषः, कथं ?, वर्तमानेऽतिमध्याह्ने, भूतले वह्निसन्निभे । उत्तप्तलोहपिण्डाभे, जगत्तपति भास्करे ॥ ८२ ॥ निर्दाहिमुर्मुराकारे, सूक्ष्मधूलीमहाचये । पादत्राणविनिर्मुक्तो, गच्छन्नेष विलो
For Private & Personal Use Only
कामक्रीडा
बुधसूरेरा
गमः
॥ ५०४ ॥
www.jainelibrary.org