________________
उपमितौ प.५-प्र.
॥५०३॥
शीलयसि निजावस्थानुरूपं ? किं नाधितिष्ठसि राज्यं ? किन कुरुषे दारसंग्रहं ? किं नानुभवसि विषयग्रामं ? किं न वर्धयसि कुलसन्तति ? किं नोत्पादयसि प्रजानामानन्दं ? किं नाहादयसि बन्धुवर्ग? किं न पूरयसि प्रणयिजनं ? किं न तर्पयसि पितृदेवान् ? किं न सन्मानयसि मित्रवर्ग? किं न जनयसि वचनमिदं कुर्वन्नावयोः प्रमोदसन्दोहमिति, विमलेन चिन्तितं-सुन्दरमिदमाभ्यामभिहितं, भविष्यत्ययमेव प्रतिबोधनोपायः, ततोऽभिहितमनेन–यदाज्ञापयति तातो यदादिशत्यम्बा तत्समस्तं मादृशां करणोचितं नात्र विकल्पः, किं तु ममायमभिप्रायः-यदि सर्वेषां स्वराज्ये दुःखितलोकानामपहृत्य बाधा संपाद्य च सुखं ततः स्वयं सुखमनुभूयते तत्सुन्दरं, एवं हि प्रभुत्वमाचरितं भवति, नान्यथा, तथाहि-विधाय लोकं निर्बाधं, स्थापयित्वा सुखेऽखिलम् । यः स्वयं सुखमन्विच्छेत्स | दुःखिसराजा प्रभुरुच्यते ॥ ७९ ॥ यस्तु लोके सुदुःखाते, सुखं भुते निराकुलः । प्रभुत्वं हि कुतस्तस्य ?, कुक्षिभरिरसौ मतःत्वान्वेषणं ॥ ८० ॥ तदिदमत्र प्राप्तकालं वर्तते तावदेष संतापिताशेषभूमण्डलो ग्रीष्मसमयः ततोऽहमत्रैव मनोनन्दनाभिधाने गृहोपवने युक्तो | बन्धुवर्गेण परिवृतो मित्रवृन्देन सेवमानो धर्मसमयोचितां राजलीला संपादयामि ताताम्बयोः सम्बन्धिनमादेशं, केवलं नियुज्यन्तां राजपुरुषा ये सर्व दुःखदौर्गत्योपहतं लोकं गवेषयित्वा समानीय च मया साधं सुखमनुभावयन्तीति, एतच्चाकर्ण्य प्रहृष्टो धवलराजः प्रमु-| |दिता कमलसुन्दरी, ततोऽभिहितमाभ्यां साधु वत्स! गुरुवत्सल! साधु चारु जल्पितं वत्सेन, युक्तमिदमीदृशमेव भवतो विवेकस्येति,
ततस्तत्र मनोनन्दने गृहोपवने सज्जीकारितमतिविशालं नरेन्द्रेण हिमगृहं, तच्चाच्छादितं निरन्तरं नलिनीदलैः समन्तादुपगूढं मरकतहरितैः कदलीवनर्वेष्टितं सततवाहिन्या कर्पूरपूरितोदकप्रवाहया गृहनद्या विलेपितं मलयजकर्पूरक्षोदगार्या कृतविभागमुशीरमृणालनालकल्पि- ॥५०३॥ तैर्भित्तिभागैः, ततस्तत्र तादृशे श्रीष्मसन्तापहारिणि शिशिरसुखोत्कम्पकारिणि महति हिमभवने विरचितानि शिशिरपल्लवशथनानि क
Jain Education
ethical
For Private Personel Use Only
Diwww.jainelibrary.org