________________
उपमिती प. ५-प्र.
॥५०२॥
वैराग्यम्
प्रच्छन्नो बुधसूरिसन्देशकः, स तु मया नाकर्णित इति, प्राह च रत्नचूडः-तदनेन कारणेन संजातो मे कालविलम्बः अमुना च हेसुना। नानीतो बुधसूरिरिति, विमलेनोक्तं—सुन्दरमनुष्ठितमार्येण, ततः प्रविष्टाः सर्वेऽपि नगरे, स्वित्वा च महाप्रमोदेन द्वित्राणि दिनानि गतः स्वस्थानं रत्नचूडः । विमलस्तु ततः प्रभृति "गाढतरमभ्यस्ततया कुशलभावस्य नहीणतया कर्मजालस्य विशुद्धतया ज्ञानस्य हेयतया विष-४
| विमलस्य “याणां उपादेयतया प्रशमस्य अविद्यमानतया दुश्चरितानां प्रबलतया जीववीर्यस्य प्रत्यासन्नतया परमपदसम्पत्तेर्न बहुमन्यते राज्यश्रियं । "न कुरुते शरीरसंस्कारं न ललति विचित्रलीलाभिः नाभिलषति प्राम्यधर्मसम्बन्धगन्धमपी"ति, केवलं भवचारकविरक्तचित्तः शुभघ्यानानुगतः कालं गमयति, तं च तथाविधमवलोक्य पितुर्धवलनृपतेर्मातुश्च कमलसुन्दर्याः समुत्पन्ना चिन्ता-यथेष विमलकुमारसत्यपि मनोहरे तारुण्ये विद्यमानेऽप्यपहसितधनदविभवे विभवे पश्यन्नप्यधरितामरसुन्दरीलावण्या नरेन्द्रकन्यका अधःकृतमकरकेतनोः |ऽपि रूपातिशयेन संगतोऽपि कलाकलापेन नीरोगोऽपि देहेन संपूर्णोऽपीन्द्रियसामग्या रहितोऽपि मुनिदर्शनेन नालीयते यौवनविकारैर्न
धवलरानिरीक्षतेऽर्धाक्षिनिरीक्षितेन न जल्पति मन्मनस्खलितवचनेन न सेवते गेयादिकला न बहुमन्यते भूषणानि न गृह्यते मदान्धतया न
जकमलविमुच्यते सरलतया न विषहते विषयसुखनामापीति तत्किमिदमीदृशमस्य संसारातीतमलौकिकं चरितं, यावञ्चैष प्रियपुत्रको विषयसुख
सुन्दयोविमुखः खल्वेवं मुनिवदवतिष्ठते तावदावयोरिदं निष्फलं राज्यं अकिञ्चित्करी प्रभुता निष्पयोजना विभवा मृतसमानं जीवितमिति, ततः
विचारः कथं पुनरेष विषयेषु प्रवर्तिष्यते कुमार इति संपन्नो देवीनृपयो रहसि पर्यालोचः, स्थापितः सिद्धान्तः यदुत-खयमेव तावदभिधीयतां विषयसुखानुभवं प्रति कुमारः, स हि विनीततया दाक्षिण्यधनतया च न कदाचन पित्रोर्वचनमतिलवयिष्यतीति मत्वा, ततोऽन्यदाऽमि- ५०२॥ हितो रहसि जननीजनकाभ्यां विमलकुमारः यथा-पुत्र! मनोरथशतैस्त्वमावयोर्जातोऽसि राज्यधूर्धरणक्षमश्च वर्तसे तत्किमिति नानु
Join Education
For Private 3 Personal Use Only
www.jainelibrary.org