SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. म. रतचूडस्य विद्याधरेन्द्रता ॥५०१॥ धरबलं तव । पदातिभावमापन्नमायातं द्वारि वर्तते ।। ७४ ॥ लसत्कुण्डलकेयूरकिरीटमणिभास्वराः । ततः प्रविश्य ते सर्वे, खेचरा मे नतिं गता ॥ ७५ ॥ अत्रान्तरे प्रहतमुद्दामातोद्यशब्दं प्राभातिकतूरं, पठितं च कालनिवेदकेन यदुत-एष भो! भास्करो लोके, स्वभावादुदयं गतः । प्रबोधकारको नृणां, दृष्टिप्रसरदायकः ॥ ७६ ॥ सदनुष्ठानहेतुश्च, सर्वासामर्थसम्पदाम् । सम्पादक इति ख्यातः, सद्धर्म इव वर्तते ।। ७७ ।। ततः-भो भो लोकाः! समुत्थाय, सद्धर्मे कुरुतादरम् । येन वोऽतर्किता एव, संपद्यन्ते विभूतयः ॥ ७८ ॥एतच्चाकर्ण्य चिन्तितं मया-अये! भगवद्भाषितसद्धर्ममाहात्म्यमिदं यद्-अतर्कितोपनता एव सिद्धा ममैताः सर्वविद्याः, न चेदं मे हर्षस्थानं, विघ्नः खल्वेष समुपस्थितो मे, न भविष्यति विमलेन सार्ध दीक्षाग्रहणं, यतः पुण्यानुबन्धि पुण्यमपि भगवता सौवर्णिकनिगडतुल्यं व्याख्यातं, आदिष्टं च पूर्वमेव मे चन्दनेन विद्याधरचक्रवर्तित्वं, समर्थितं च महात्मना विमलेन, तत्का गतिः ?, भवितव्यमेवमनेन, तदेवं चिन्तयत एव मे कृतो देवताभिः शरीरेऽनुप्रवेशः, प्रारब्धो विद्याधरसमूहैर्मे राज्याभिषेकः, कृतानि कौतुकानि विहितानि माङ्गलिकानि समुपनीतानि सत्तीर्थोदकानि प्रकटितानि रत्नानि सज्जीकृताः कनकरत्नकलशाः, एवं च महता विमर्दैन निर्वतितो मे राज्याभिषेकः, ततः पूजयतो देवान् सन्मानयतो गुरून् स्थापयतो राजनीति निरूपयतो भृत्यवर्ग कुर्वतो यथाप्रतिपत्तिं समाचरतोऽभिनवराज्योचितं सर्व करणीयं लजितानि मम कियन्यपि दिनानि, ततो निराकुलीभूतस्य मे संस्मृतो युष्मदादेशः, चिन्तितं च |-अये! नान्वेषितोऽसौ मया बुधसूरिः, न नीतो विमलसमीपं, अहो मे प्रमत्तता, ततस्तद्गवेषणार्थ स्वयमेव भ्रान्तोऽहं भूरिभूमिम&ण्डलं, दृष्टश्चैकत्र नगरे मया बुधसूरिः निवेदितो युष्मद्वृत्तान्तः, ततोऽभिहितमनेन—च्छ त्वं तावदिदमिदं च विमलाय निवेदय, अहं |तु पश्चादागमिष्यामि, अयमेव हि विमलबन्धूनां प्रतिबोधनोपायो नान्यः, ततः कर्णाभ्यणे स्थित्वा शनैः कथितो विमलाय रत्नचूडेन स| 4 ॥५० ॥ Jain Education in For Private & Personel Use Only livww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy