SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ उपमितौ दत्तम! । प्राप्य चिन्तामणिं नैव, नरो दारिद्यमर्हति ॥ ५५ ॥ एवं च कलवाक्येन, विमलं खचराधिपः । अभिनन्ध ततो नाथं, प. ५-प्र. वन्दित्वा भक्तिनिर्भरः ॥ ५६ ॥ तदन्ते विमलस्योच्चैर्वन्दनं प्रविधाय सः। प्रथमं वन्दितस्तेन, निविष्टः शुद्धभूतले ॥ ५७ ॥ ततो वि हितकर्तव्या, निषण्णा चूतम जरी । विद्याधरनरेन्द्राश्च, निषण्णा नतमस्तकाः ॥ ५८ ॥ अथ पृष्टतनूदन्तौ, जाततोषौ परस्परम् । विमलो ॥५० ॥ रत्नचूडश्च, सम्भाष कर्तुमुद्यतौ ॥ ५९॥ उक्तं च रत्नचूडेन, महाभाग ! निशम्यताम् । हेतुना येन संजातं, मम कालविलम्बनम् ॥६॥ नानीतो भवदादिष्टः, स सूरिर्बुधनामकः । तत्रापि कारणं किञ्चिन्महाभाग! निशामय ।। ६१ ॥ इतो गतोऽहं वैताड्ये, दृष्टाऽम्बा शोकविह्वला । तातश्च मद्वियोगेन, तौ च संधीरिती मया ॥ ६२ ॥ अथातीते दिने तस्मिन् , सङ्गमानन्दबन्धुरे । रात्रौ स्थितोऽहं शय्यायां, कृतदेवनमस्कृतिः ।। ६३ ॥ ध्यायतः परमात्मानं, भगवन्तं जिनेश्वरम् । समागता च मे निद्रा, द्रव्यतो न तु भावतः ॥ ६४ ॥ | तावद् भो भो महाभाग!, भुवनेश्वरभक्तक! । उत्तिष्ठेति गिरं शृण्वन् , विबुद्धोऽहं मनोहराम् ॥ ६५ ॥ अथ विद्योतिताशेषदिक्चक्र-| प्रतिभास्वराः । तदाऽहं पुरतः साक्षात्पश्यामि बहुदेवताः॥६६॥ ततः ससम्भ्रमोत्थानविहितातुलपूजनम् । ताभिर्मा श्लाघयन्तीभि|रिदमुक्तं वचस्तदा ॥ ६७॥-धन्योऽसि कृतकृत्योऽसि, पूजनीयोऽसि मादृशाम् । यस्य भागवतो धर्मः, स्थिरस्ते नरसत्तम! ॥ ६८ ॥1 रोहिण्याद्या वयं विद्यास्तव पुण्येन चोदिताः । सर्वास्ते योग्यतां मत्वा, समायाताः स्वयंवराः ।। ६९ ॥ आवर्जिता गुणैस्तात!, ताव४ कीनैः सुनिर्मलैः । अत्यन्तमनुरक्तास्ते, सर्वाः सर्वात्मना वयम् ॥ ७० ॥ यस्य भागवतो धीर!, नमस्कारो हृदि स्थितः । सदा जाज्व ल्यते लोके, तस्य ते किमु दुर्लभम् ? ॥ ७१ ॥ एताः पञ्चनमस्कारमन्त्रमाहात्म्ययन्त्रिताः । आगत्य स्वयमेवेह, वयं किङ्करतां गताः ॥ ७२ ॥ करिष्यामः प्रवेशं ते, शरीरे पुरुषोत्तम! । प्रतीच्छ भवितव्यं च, भवता चक्रवर्तिना ॥ ७३ ॥ एतच्चास्माभिरादिष्टं, विद्या SEKSHASKASEAR विद्याधरेन्द्रता ॥५०॥ S Jain Education anal For Private & Personel Use Only RIwww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy