SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ पपमिती प. ५-अ. विमलकृता स्तुतिः ॥४९९॥ % - त वत्सलाः ॥ ३६ ।। किं बालोऽलीकवाचाल, आलजालं लपन्नपि । न जायते जगन्नाथ!, पितुरानन्दवर्धकः ।। ३७ ।। तथाऽश्ली"लाक्षरोल्लापजल्पाकोऽयं जनस्तव । किञ्चिद् वर्धयते नाथ!, तोषं किं नेति कथ्यताम् ? ॥ ३८ ॥ अनाद्यभ्यासयोगेन, विषयाशुचिक"दमे । गर्ते सूकरसंकाशं, याति मे चटुलं मनः ॥ ३९ ॥ न चाहं नाथ! शक्नोमि, तन्निवारयितुं चलम् । अतः प्रसीद तद्देव!, देव! "वारय वारय ॥ ४०॥ किं ममापि विकल्पोऽस्ति ?, नाथ! तावकशासने । येनैवं लपतोऽधीश!, नोत्तरं मम दीयते ॥४१ ।। आरू"हमियती कोटी, तव किङ्करतां गतम् । मामप्येतेऽनुधावन्ति, किमद्यापि परीषहाः ॥ ४२ ॥ किं चामी प्रणताशेषजनवीर्यविधायक!। | "उपसर्गा ममाद्यापि, पृष्ठं मुञ्चन्ति नो खलाः ॥ ४३ ॥ पश्यन्नपि जगत्सर्व, नाथ! मां पुरतः स्थितम् । कषायारातिवर्गण, किं न "पश्यसि पीडितम् ? ॥ ४४ ॥ कषायाभिद्रुतं वीक्ष्य, मां हि कारुणिकस्य ते । विमोचने समर्थस्य, नोपेक्षा नाथ! युज्यते ॥ ४५ ॥ "विलोकिते महाभाग!, त्वयि संसारपारगे । आसितुं क्षणमप्येकं, संसारे नास्ति मे रतिः ॥ ४६ ॥ किं तु किं करवाणीह ?, नाथ! | "मामेष दारुणः । आन्तरो रिपुसङ्घातः, प्रतिबध्नाति सत्वरम् ॥ ४७ ॥ विधाय मयि कारुण्यं, तदेनं विनिवारय । उद्दामलीलया "नाथ !, येनागच्छामि तेऽन्तिके ॥ ४८ ॥ तवायत्तो भवो धीर !, भवोत्तारोऽपि ते वशः । एवं व्यवस्थिते किं वा, स्थीयते ? परमेश्वर ! "|| ४९ ॥ तद्दीयतां भवोत्तारो, मा विलम्बो विधीयताम् । नाथ! निर्गतिकोल्लापं, न शृण्वन्ति भवादृशाः? ॥५०॥" इत्येवं विमलो यावत्सद्भावार्पितमानसः । भूतनाथमभिष्टुत्य, पञ्चाङ्गप्रणतिं गतः ॥ ५१ ।। तावदुल्लासितानन्दपुलकोद्भेदसुन्दरः । संतुष्टस्तस्य भारत्या, रत्नचूडः सखेचरः ॥ ५२ ॥ युग्मम् ॥साधु साधु कृतं धीर !, स्तवनं भवभेदिनः । त्वयेत्येवं श्रुवाणोऽसौ, प्रादुरासीत्तदा पुरः ॥ ५३॥ धन्यस्त्वं कृतकृत्यस्त्वं, जातोऽसि त्वं महीतले । यस्येदृशी महाभाग!, भक्तिर्भुवनबान्धवे ॥ ५४ ॥ मुक्त एवासि संसारानिश्चितस्त्वं नरो 6-2564-5 ॥४९९॥ Jain Education Central For Private Personal use only
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy