SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. स्तुतिः ॥४९८॥ दागर!। न युक्तमीदृशं कर्तु, जने नाथ! भवादृशाम् ॥ १८ ॥ भीमेऽहं भवकान्तारे, मृगशावकसन्निभः । विमुक्तो भवता नाथ!, कि-1 विमलकृता "मेकाकी दयालुना ॥ १९ ॥ इतश्चेतश्च निक्षिप्तचक्षुस्तरलतारकः । निरालम्बो भयेनैव, विनश्येऽहं त्वया विना ॥ २०॥ अनन्त- दि “वीर्यसम्भार!, जगदालम्बदायक!। विधेहि निर्भयं नाथ!, मामुत्तार्य भवाटवीम् ॥ २१ ॥ न भास्कराहते नाथ!, कमलाकरबोधनम् । "यथा तथा जगन्नेत्र!, त्वदृते नास्ति निर्वृतिः ॥ २२ ॥ किमेष कर्मणां दोषः, किं ममैव दुरात्मनः । किं वाऽस्य हतकालस्य ?, किं| | "वा मे नास्ति भव्यता ? ॥ २३ ॥ किं वा सद्भक्तिनिर्ग्राह्य !, सद्भक्तिस्त्वयि तादृशी । निश्चलाऽद्यापि संपन्ना ?, न मे भुवनभूषण ! ॥ २४ ॥ लीलादलितनिःशेषकर्मजाल! कृपापर! । मुक्तिमर्थयते नाथ!, येनाद्यापि न दीयते ॥ २५ ॥ त्रिभिर्विशेषकम् । स्फुटं च | | "जगदालम्ब!, नाथदं ते निवेद्यते । नास्तीह शरणं लोके, भगवन्तं विमुच्य मे ॥ २६ ॥ त्वं माता त्वं पिता बन्धुस्त्वं स्वामी त्वं च | “मे गुरुः । त्वमेव जगदानन्द!, जीवितं जीवितेश्वर! ॥ २७ ॥ त्वयाऽवधीरितो नाथ!, मीनवजलवर्जिते । निराशो दैन्यमालम्ब्य, | "म्रियेऽहं जगतीतले ॥ २८ ॥ स्वसंवेदनसिद्धं मे, निश्चलं त्वयि मानसम् । साक्षाद्भूतान्यभावस्थ, यद्वा किं ते निवेद्यताम् ? ॥ २९॥ "मच्चित्तं पद्मवन्नाथ !, दृष्टे भुवनभास्करे । त्वयीह विकसत्येव, विदलत्कर्मकोशकम् ॥ ३० ॥ अनन्तजन्तुसन्तानव्यापाराक्षणिकस्य ते । “ममोपरि जगन्नाथ !, न जाने कीदृशी दया ? ॥ ३१ ॥ समुन्नते जगन्नाथ!, त्वयि सद्धर्मनीरदे । नृत्यत्येष मयूराभो, मदोर्दण्डशिख"ण्डिकः ॥ ३२ ॥ तदस्य किमियं भक्तिः ?, किमुन्मादोऽयमीदृशः? । दीयतां वचनं नाथ!, कृपया मे निवेद्यताम् ॥ ३३ ॥ मन“राजिते नाथ!, सबूते कलकोकिलः । यथा दृष्टे भवत्येव, लसत्कलकलाकुलः॥ ३४ ॥ तथैष सरसानन्दबिन्दुसन्दोहदायक!। ||४९८॥ "त्वयि दृष्टे भवत्येवं, मूल्ऽपि मुखरो जनः ॥ ३५ ॥ तदेनं माऽवमन्येथा, नाथासंबद्धभाषिणम् । मत्वा जडं जगज्येष्ठ!, सन्तो हि 0 Jain Education in For Private & Personel Use Only X w w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy