________________
उपमिती प. ५-प्र.
॥४९७॥
धेयः, यतो दुराराधोऽयं लोकः, ततो भवादृशामेष केवलमवधीरणामईतीति, न च न प्रतीतं तस्य महात्मनो विमलस्य तदा मदीयचरितं, तथापि-अहं बहुलिकादोषातादृशो दुष्टचेष्टितः । स तादृशो महाभागस्तत्रेदं विद्धि कारणम् ॥ १।। वारुण्यामुयं गच्छेदस्तं प्राच्यां दिवाकरः । लक्खयेच्च स्वमर्यादां, यद्वा क्षीरमहार्णवः ॥ २ ॥ अथवा-वह्निपिण्डोऽपि जायेत, कदाचिद्धिमशीतलः । अलाबुवत्तरेनीरे, निक्षिप्तो मेरुपर्वतः ॥३॥ निर्व्याजस्नेहकारुण्यः, सद्दाक्षिण्यमहोदधिः । तथापि सुजनो भद्रे !, प्रतिपन्नं न मुञ्चति ॥४॥ त्रिभिर्विशेषकम् । अन्यच्च-जानन्नपि न जानीते, पश्यन्नपि न पश्यति । न श्रद्धत्ते च शुद्धात्मा, सज्जनः खलचेष्टितम् ॥ ५॥ ततोऽहं बन्धुभिस्त्यक्तो, लोके संजातलाघवः । विचरामि तदा सार्ध, विमलेन महात्मना ।। ६ ।। अथान्यदा मया युक्तो, विमलो विमलेक्षणः । संप्राप्तस्तत्र जैनेन्द्रमन्दिरे वन्दनेच्छया ॥ ७॥ विधायाशेषकर्तव्यं, प्रणिपत्य जिनेश्वरम् । अथासौ स्तोतुमारब्धो, विमलः कलया गिरा
रतचूडाS॥ ८ ॥ अत्रान्तरे लसद्दीप्तिर्विद्योतितदिगन्तरः । स रत्नचूडः संप्राप्तः, खचरैः परिवेष्टितः ॥ ९ ॥ अथासौ मधुरध्वानमाकर्ण्य श्रुति
द्यागमः पेशलम् । ततः संचिन्तयत्येवं, रत्नचूडः प्रमोदितः ॥१०॥-अये! स स्तौति धन्यात्मा, विमलो जन्तुबान्धवम् । भगवन्तं महाभागं, तत्तावच्छ्रयतामिदम् ॥ ११ ॥ ततो निभृतसञ्चारो, मूकीकृत्य स्वखेचरान् । सहैव चूतमञ्जर्या, चित्रन्यस्त इव स्थितः ॥ १२ ॥ अथ गम्भीरनिर्घोषः, स्फुटकण्टकभूषणः । आनन्दोदकपूर्णाक्षः, क्षिप्तदृष्टिर्जिनानने ॥ १३ ।। सद्भक्त्यावेशयोगेन, साक्षादिव पुरः स्थि-13
विमलकृता |तम् । जिनेशं परमात्मानं, भगवन्तं सनातनम् ॥ १४ ॥ सोपालम्भं सविश्रम्भं, सस्नेहं प्रणयान्वितम् । ततः संस्तोतुमारब्धो, विमलो
स्तुतिः |ऽमलमानसः ॥ १५ ॥ त्रिभिर्विशेषकम् । “अपारघोरसंसारनिमग्नजनतारक! । किमेष घोरसंसारे, नाथ ! ते विस्मृतो जनः ॥१६॥
॥४९७॥ "सद्भावप्रतिपन्नस्य, तारणे लोकबान्धव! । त्वयाऽस्य भुवनानन्द!, येनाद्यापि विलम्ब्यते ॥ १७ ॥ आपन्नशरणे हीने, करुणामृतसा
Jain Education
For Private & Personel Use Only
ADMww.jainelibrary.org