SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ उपमिती प. ५-प्र. ॥४९७॥ धेयः, यतो दुराराधोऽयं लोकः, ततो भवादृशामेष केवलमवधीरणामईतीति, न च न प्रतीतं तस्य महात्मनो विमलस्य तदा मदीयचरितं, तथापि-अहं बहुलिकादोषातादृशो दुष्टचेष्टितः । स तादृशो महाभागस्तत्रेदं विद्धि कारणम् ॥ १।। वारुण्यामुयं गच्छेदस्तं प्राच्यां दिवाकरः । लक्खयेच्च स्वमर्यादां, यद्वा क्षीरमहार्णवः ॥ २ ॥ अथवा-वह्निपिण्डोऽपि जायेत, कदाचिद्धिमशीतलः । अलाबुवत्तरेनीरे, निक्षिप्तो मेरुपर्वतः ॥३॥ निर्व्याजस्नेहकारुण्यः, सद्दाक्षिण्यमहोदधिः । तथापि सुजनो भद्रे !, प्रतिपन्नं न मुञ्चति ॥४॥ त्रिभिर्विशेषकम् । अन्यच्च-जानन्नपि न जानीते, पश्यन्नपि न पश्यति । न श्रद्धत्ते च शुद्धात्मा, सज्जनः खलचेष्टितम् ॥ ५॥ ततोऽहं बन्धुभिस्त्यक्तो, लोके संजातलाघवः । विचरामि तदा सार्ध, विमलेन महात्मना ।। ६ ।। अथान्यदा मया युक्तो, विमलो विमलेक्षणः । संप्राप्तस्तत्र जैनेन्द्रमन्दिरे वन्दनेच्छया ॥ ७॥ विधायाशेषकर्तव्यं, प्रणिपत्य जिनेश्वरम् । अथासौ स्तोतुमारब्धो, विमलः कलया गिरा रतचूडाS॥ ८ ॥ अत्रान्तरे लसद्दीप्तिर्विद्योतितदिगन्तरः । स रत्नचूडः संप्राप्तः, खचरैः परिवेष्टितः ॥ ९ ॥ अथासौ मधुरध्वानमाकर्ण्य श्रुति द्यागमः पेशलम् । ततः संचिन्तयत्येवं, रत्नचूडः प्रमोदितः ॥१०॥-अये! स स्तौति धन्यात्मा, विमलो जन्तुबान्धवम् । भगवन्तं महाभागं, तत्तावच्छ्रयतामिदम् ॥ ११ ॥ ततो निभृतसञ्चारो, मूकीकृत्य स्वखेचरान् । सहैव चूतमञ्जर्या, चित्रन्यस्त इव स्थितः ॥ १२ ॥ अथ गम्भीरनिर्घोषः, स्फुटकण्टकभूषणः । आनन्दोदकपूर्णाक्षः, क्षिप्तदृष्टिर्जिनानने ॥ १३ ।। सद्भक्त्यावेशयोगेन, साक्षादिव पुरः स्थि-13 विमलकृता |तम् । जिनेशं परमात्मानं, भगवन्तं सनातनम् ॥ १४ ॥ सोपालम्भं सविश्रम्भं, सस्नेहं प्रणयान्वितम् । ततः संस्तोतुमारब्धो, विमलो स्तुतिः |ऽमलमानसः ॥ १५ ॥ त्रिभिर्विशेषकम् । “अपारघोरसंसारनिमग्नजनतारक! । किमेष घोरसंसारे, नाथ ! ते विस्मृतो जनः ॥१६॥ ॥४९७॥ "सद्भावप्रतिपन्नस्य, तारणे लोकबान्धव! । त्वयाऽस्य भुवनानन्द!, येनाद्यापि विलम्ब्यते ॥ १७ ॥ आपन्नशरणे हीने, करुणामृतसा Jain Education For Private & Personel Use Only ADMww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy