________________
उपमितौ प. ५-प्र.
॥४९४॥
ARRAORRENCY
8 मिति, एवं च विचिन्य मया निखातस्तत्प्रमाणः कर्पटावगुण्ठितस्तत्र प्रदेशे पाषाणः, समागतो गृहं लजितं तद्दिनं समायाता रजनी रत्तापहारः |स्थितोऽहं पर्यके समुत्पन्ना' मे चिन्ता-अये विरूपकं मया कृतं यन्नानीतं तद्नं दृष्टः केनचिदहं तथा कुर्वाणः प्रहीष्यति कश्चिदन्यस्तदनं तदधुना किं करोमीति वितर्ककल्लोलमालाकुलितचित्तवृत्तेश्चित्तसंतापेन विनिद्रस्यैवातीता सर्वाऽपि शर्वरी, प्रभाते च समुत्थायातित्वरितं गतोऽहं पुनस्तं प्रदेशं, इतश्च समागतो मद्भवने विमलः न दृष्टोऽहमनेन पृष्टो मत्परिजनः क वामदेव इति, कथितमनेन-यथा क्रीडानन्दनोद्यानाभिमुखं गत इति, ततः समागतो ममानुमार्गेण विमलः, स चागच्छन् दूरे दृष्टो मया, ततः संजाता ममाकुलता विस्मृतो रत्नप्रदेशः समुत्खातः पाषाणो गोपितः कटीपट्यां कृतो निरुपलक्षः स प्रदेशः गतोऽहमन्यत्र गहनान्तरे संप्राप्तो विमलः दृष्टोऽहमनेन लक्षितो भयतरललोचनः, ततोऽभिहितमनेन-वयस्य ! वामदेव किमेकाकी त्वमिहागतः ? किं वा भीतोऽसि ?, मयोक्तं श्रुतः प्रभाते |मया त्वमिहागतः तेनाहमप्यागतः ततो न दृष्टस्त्वमत्र तेन संजातो मम हृदये त्रासः क कुमारो गत इति चिन्तया साम्प्रतं तु त्वयि दृष्टे यदि पर स्वस्थो भविष्यामीति, विमलेनोक्तं यद्येवं ततः सुन्दरमिदं संपन्नं यदिहागतौ साम्प्रतं गच्छावो भगवद्भवने, मयोक्तं एवं भवतु, ततो गतौ जिनमंदिरे प्रविष्टोऽभ्यन्तरे विमलः स्थितोऽहं द्वारदेशे, चिन्तितं मया-नूनं विज्ञातोऽहमनेन ततो नश्यामि त्वरित इतरथा ममेदमेष रत्नमुद्दालयिष्यति न चात्र पुरे तिष्ठतो ममास्त्यस्मान्मोक्षः अतः पतामि निर्देश इति, ततः पलायितोऽहं वेगेन क्रान्तो: बहुविषयं ऊढस्त्रीणि रात्रिन्दिनानि गतोऽष्टाविंशति योजनानि छोटितो रत्नप्रन्थिः दृष्टो निष्ठुरपाषाणः ततो हा हतोऽस्मीति गतो मूर्छा
लब्धा कृच्छ्रेण चेतना गृहीतः पश्चात्तापेन प्रारब्धः पलायितुं भ्रष्टोऽहं कथंचित्ततः स्थानात् तत्पुनर्गृहामीत्यभिप्रायेण वलितः स्वदेशाभि- ॥४९४॥ * मुखं । इतश्च जिनसदनान्निर्गतेन न दृष्टोऽहं विमलेन, ततः संजाता विमलस्य चिन्ता-क पुनर्गतो वामदेव इति, गवेषितः सर्वत्र
Jain Education Inter
For Private & Personel Use Only
Dhaw.jainelibrary.org