SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ उपमिती प.५-प्र. ॥४९३॥ रत्नापहार गुणहीनोऽपि, स्मरणीयः कचिज्जनः । भवादृशां महाभाग!, धन्या हि स्मृतिगोचरे ॥२५१॥ विमलेनोक्तं—आर्य! -गुरुश्च गुरुपत्नी च, यदि न स्मृतिगोचरे । ततो मे कीदृशो धर्मः, किं वा सौजन्यमुच्यताम् ? ॥२५२॥ एवं च कृत्वा मयापि सह सम्भाषणं गतौ चूतमजरीरत्रचूडौ, मम पुनरगृहीतसंकेते ! भद्रे समाकर्णयतोऽपि तथा विमलरत्नचूडयोः सम्बन्धिनं धर्मजल्पं गुरुकर्मतया दूरभव्यतया च मत्तस्येव सुप्तस्येव विक्षिप्तचित्तस्येव मूर्छितस्येव प्रोषितस्येव मृतस्येव न तदा परिणतमेकमपि धर्मपदं हृदये वनशिलाशकलघटितमिव मनागपि न द्रावितं जिनवचनामृतरससेकेनापि चित्तं, ततो विशेषतः संस्तुत्य भगवन्तं निर्गतश्चैत्यभवनान्मया सहितो विमलः, ततोऽभिहितमलेन-वयस्य! वामदेव यदिदं रत्नचूडेन मह्यं दत्तं रत्नं महाप्रभावमिदमाख्यातं तेन ततः कदाचिदिदमुपयुज्यते कचिन्महति प्रयोजने स च नास्थाऽधुना रत्नादिके ततो गृहीतमिदमनादरेण कथञ्चिन्नयति तस्मादत्रैव कुत्रचित्प्रदेशे निधाय गच्छाव इति, मयोक्तं –यादिशति कुमारः, ततो विमोच्य वस्त्राञ्चलं समर्पितं तद्रत्नं मे विमलेन, निखातं मयैकत्र भूप्रदेशे कृतो निरुपलक्ष्यः स प्रदेशः, प्रविष्टौ नगरे, गतोऽहं स्वभवने कृतः स्तेयबहुलिकाभ्यां मम शरीरेऽनुप्रवेशः, ततश्चिन्तितं मया-तद्नं रत्नचूडेन, सर्वकार्यकरं परम् । निवेदितं समक्षं मे, तुल्यं चिन्तामणेर्गुणैः ॥ २५३ ॥ तत्तादृशमनर्धेयं, रत्नं को नाम मुञ्चति ? । हरामि त्वरितं गत्त्वा, किं ममापरचिन्तया? ॥ २५४ ॥ ततोऽवलम्ब्य जघन्यतां विस्मृत्य विमलस्नेहं अविगणय्य सद्भावार्पणं अपर्यालोच्यायतिं अनाकलव्य महापापं अविचार्य कार्याकार्य अधिष्ठितः स्तेयबहुलिकाभ्यां गतोऽहं तं प्रदेश उत्खातं तद्रनं निखातमन्यत्र प्रदेशे, चिन्तितं च मया कदाचिधु|नैवागच्छति विमलः ततो रिक्तेऽस्मिन्दृष्टे प्रदेशे भवेदस्य विकल्पो यथा वामदेवेन गृहीतं तदनं यदि पुनरत्र प्रदेशे यथेदं कर्पटावगुण्ठितं | निखातं तथैवान्यस्तत्प्रमाणः पाषाणो निखन्यते ततो विमलस्य तं दृष्ट्वा भवेदेवंविधो वितर्कः यथा तद्रनं ममैवापुण्यैरेवं पाषाणीभूत-प ॥ ४९३॥ स.भ.४२ Jain Education For Private Personal Use Only |ww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy