________________
उपमितौ प.५-प्र.
॥४९२॥
कचिदन्यत्र विहरतीति । तेनाहं ब्रवीमि यद्यसौ बुधसूरिरागच्छेत्ततस्ते बन्धुवर्ग बोधयति, परोपकारकरणैकव्यसनी हि स भगवान् , यतस्तदापि मम मत्परिकरस्य च सद्धमें स्थैर्यार्थ विहितं तेन तत्तादृशं वैक्रियरूपमिति, विमलेनोक्तं-आर्य! सोऽपि कथञ्चिदिहागमनाय भवतैवाभ्यर्थनीयः, रत्नचूडेनोक्तं यदादिशति कुमारः केवलमस्मद्वियोगेन साम्प्रतं विधुरस्तातो विसंस्थुलाऽम्बा वर्तते तद्गच्छामि तावदहं तयोः संधीरणार्थ स्वस्थाने, ततः करिष्यामि युष्मदादेश, नात्र कुमारेण विकल्पो विधेय इति, विमलेनोक्तं—आर्य ! किं गन्तव्यं?, रत्नचूडः प्राह कुमार!-युष्मत्सङ्गामृतक्षोदलब्धास्वादस्य मेऽधुना । गन्तव्यमिति वक्तव्ये, भारती न प्रवर्तते ॥ २४१ ॥ तथाहि-जडोऽपि सज्जने दृष्टे, जायते तोषनिर्भरः । उदिते विकसत्येव, शशाके कुमुदाकरः ।। २४२ ॥ स तत्र क्षणमात्रेण, प्रीतिसं-1 बद्धमानसः । जीवन्नेव न तं मुक्त्वा , नूनमन्यत्र गच्छति ॥ २४३ ॥ किं च-संसारेऽनन्तदुःखौघपूरितेऽप्यमृतं परम् । इदमेकं बुधैरुक्तं, यत्सद्भिश्चित्तमीलनम् ।। २४४ ॥ कोऽर्घ कर्तुं समर्थोऽत्र, सतां सङ्गस्य भूतले । यदि (चेत् ) तद्विघटने हेतुर्न स्याद्विरहमुद्गरः ॥ २४५ ॥ चिन्तामणिमहारत्नममृतं कल्पपादपम् । स दृष्टं संत्यजेन्मूढः, सज्जनं यो विमुञ्चति ।। २४६ ।। कुमारविरहोत्रासाजिह्वा लगति तालुके । तवापि पुरतो मेऽद्य, गन्तव्यमिति जल्पतः ।। २४७ ॥ इदं वज्राशनेस्तुल्यमिदमत्यन्तनिष्ठुरम् । यन्मे भवादृशामग्रे, गच्छाम इति जल्पनम् ।। २४८॥ तथापि-ताताम्बाचित्तसन्तापरूपं संचिन्त्य कारणम् । महगन्तव्यमेवेति, मयेदमभिधीयते ॥२४९॥ विमलेनोक्तं-आर्य! यद्येवं ततो गम्यतां भवता, केवलं न विस्मरणीयमिदमार्येण मदीयमभ्यर्थनं आनेतव्यः स कथञ्चिदत्र बुधसूरिरिति, रत्नचूडेनोक्तं-कुमार!–कोऽत्र विकल्पः?, ततो भाविसुजनदर्शनविच्छेदकातरहृदया चूतमञ्जरी सबाष्पगद्गदया गिरा विमलं प्रत्याह-कुमार! -सहोदरोऽसि मे भ्राता, देवरोऽसि नरोत्तम! । शरीरं जीवितं नाथस्त्वं मे भवसि सुन्दर ! ॥ २५० ॥ तदेष
विमलाद्वियोगो रत्नचूडस्य
॥४९२॥
Jain Education
ForPrivatesPersonal use Only
Riwww.jainelibrary.org