SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ बुधसूरि उपमितौ प.५-प्र. ॥४९१॥ ज्ञातश्च तेन पूर्वावधारितेन ध्वनिना, संजातो मे मनसि विस्मयः, ततश्चिन्तितं मया-अये! स एवायं तपस्वी कथं पुनरीदृशकमनी-18 यरूपः क्षणादेव संपन्न इति, अथवा किमत्राश्चर्य ?, निवेदितं मे पूर्व धर्मगुरुणा चन्दनेन, यथा-भवन्ति भगवतां सुसाधूनां लब्धयः कृतं वैक्रिय तन्माहात्म्येन च "भवन्त्येते यथेच्छया विविधरूपधारिणो जायन्ते परमाणुवत्सूक्ष्माः संपद्यन्ते पर्वतवद्गुरवः वर्तन्ते अर्कतूलवल्लघवः "पूरयन्ति वदेहविस्तारण भुवनं आज्ञापयन्ति किङ्करमिव देवेश्वरं निमजन्ति कठिनशिलातले कुर्वन्त्येकघटाटशतसहस्रं दर्शयन्त्येक"पटात्पटशतसहस्रं आकर्णयन्ति सर्वाङ्गोपाङ्गैः हरन्ति स्पर्शमात्रेण निःशेषरोगगणं गच्छन्ति पवनवद् गगने सर्वथा नास्ति किञ्चिदसा लब्धयः | "ध्यमेतेषां भगवतां सुसाधूनां, प्राप्तलब्धयो ह्येते सर्वस्य करणपटवो भवन्ति” अतोऽयं मुनिसत्तमः पूर्व तथा कुरूपो मया दृष्टः अधुना काश्चित् पुनरेवंविधरूपधारी दृश्यते तन्नूनं प्राप्तलब्धिरेष भगवानियहो भगवतोऽतिशयः, ततः प्रहृष्टचेतसा वन्दितो मया भगवानन्यमुनयश्च, अभिनन्दितोऽहं सर्वैः स्वर्गापवर्गमार्गसंसर्गनिसर्गहेतुना धर्मलामेन निविष्टो भूतले श्रुता चामृतकल्पा आक्षेपकारिणी भव्यचित्तानां विक्षेपजननी विषयविषयाभिलाषस्य अभिलाषोत्पादनी शिवसुखे निर्वेदसंपादनी भवप्रपञ्चे बाधनी विमार्गस्य भगवतो धर्मदेशना, रजितोऽहं तस्य गुणप्राग्भारेण, पृष्टश्च निकटोपविष्टः शनैरेको मुनिर्मया, यदुत-कोऽयं भगवान् किनामा कुत्रत्यो वेति ?, तेनोक्तं बुधाचासूरिरेष गुरुरस्माकं बुधो नाम, स धरातलपुरवास्तव्यस्तदधिपतेरेव शुभविपाकनृपतेस्तनयो निजसाधुतानन्दनस्तृणवदपहाय राज्यं र्योदन्तः निष्क्रान्तः साम्प्रतमनियतविहारेण विहरतीति, ततोऽहमाकर्ण्य तचरितं दृष्ट्वा तदतिशयं निरीक्ष्य रूपं श्रुत्वा धर्मदेशनाकौशलं संचिन्त्य च हृदये यथाऽहो रत्नाकरकल्पमिदं भगवतां दर्शनं यत्रैवंविधानि पुरुषरत्नान्युपलभ्यन्ते, ततः संजातो भगवदहत्प्रणीते मार्गे मेरुशिख- M॥४९१॥ ४ खनिष्प्रकम्पः स्थिरीमूतश्च धर्मे तेनैव बुधसूरिदर्शनेन मडीयः सर्वोऽपि परिकरः, ततोऽभिवन्द्य भगवन्तं गतोऽहं स्वस्थानं, भगवानपि 8 Jain Education international + For Private & Personal Use Only Jwww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy