SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ -- उपमिती ॥४८८॥ उपकारकीर्तनं पणीयं कमारण, किमत्र मया विहितं कुमारस्य ? निमित्तमात्रं अत्र संपन्नोऽहं, स्वयमेव योग्योऽसि त्वमेवंविधकल्याणपरम्परायाः, मयाऽपि | हि तावकीनां पात्रतामुपलक्ष्यायं विहितो यत्नः, तथाहि स्वयंविज्ञातसद्भावा, लोकान्तिकसुरेस्तदा । यदि नाम प्रबोध्यन्ते, तीर्थनाथाः कथञ्चन ॥ २२९ ॥ तथापि ते सुरास्तेषां, न भवन्ति महात्मनाम् । गुरवस्तादृशे पक्षे, द्रष्टव्योऽयं त्वया जनः ।। २३० ॥ युग्मम् । विमलेनोक्तं महात्मन्मा मैवं वोचः न सदृशमिदमस्योदितं भवता, नहि भगवति बोधयितव्ये लोकान्तिकसुराणां निमित्तभावः, भवता तु दर्शयता भगवद्विम्बं संपादितमेव ममेदं सकलं कल्याणं, इह च-निमित्तमात्रतां योऽपि, धर्मे सर्वज्ञभाषिते । प्रतिपद्येत जीवस्य, स गुरुः पारमार्थिकः।।२३१।। एवं मे विधानस्त्वं, गुरुरेव न संशयः । उचितं तु सतां कर्तु, सद्गुरोविनयादिकम् ॥२३२॥ तस्मादुचितमेवेदं सर्व तावकोपकारस्येति । किं च-एषा भगवतामाज्ञा, सामान्यस्यापि सुन्दरम् । कार्यः साधर्मिकस्येह, विनयो वन्दनादिकः ॥ २३३ ॥ किं पुनस्ते महाभाग!, नैवं सद्धर्मदायिनः । युज्यते विनयः कर्तु, निर्मिथ्यस्यापि सद्गुरोः ॥ २३४ ॥ रत्नचूडेनोक्तं—मा मैवमादिशतु कुमारः, तथाहि-गुणप्रकर्षरूपस्त्वं, पूजनीयः सुरैरपि । त्वमेव गुरुरस्माकं, तन्नैवं वक्तुमर्हसि ॥ २३५ ॥ विमलेनोक्तं-गुणप्रकर्षरूपाणां, कृतज्ञानां महात्मनाम् । इदमेव स्फुटं लिङ्गं, यद्गुरोभक्तिपूजनम् ॥ २३६ ।। स महात्मा स पुण्यात्मा, स धन्यः स कुलोद्गतः। स धीरः स जगद्वन्द्यः, स तपस्वी स पण्डितः ॥२३७॥ यः किङ्करत्वं प्रेष्यत्वं, कर्मकारत्वमञ्जसा । दासत्वमपि कुर्वाणः, सद्रूणां न लज्जते ॥२३८॥ स कायः श्लाधितः पुंसां, यो गुरोविनयोद्यतः । सा वाणी या गुरोः स्तोत्री, तन्मनो यद्गुरौ रतम् ।। २३९ ॥ अनेकभवकोटीभिरुपकारपरैरपि । धर्मोपकारकर्तृणां, निष्क्रयो न विधीयते ॥२४०॥ अन्यच्चेदमधुना पर्यालोच्यं भवता सार्ध मया यदुत-विरक्तं तावन्मे भवचारकवासाच्चित्तं गृहीता दुःखात्मकतया विषयाः भावितो लोकोत्तरामृतास्वाद ॥४८८॥ Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy