________________
--
उपमिती
॥४८८॥
उपकारकीर्तनं
पणीयं कमारण, किमत्र मया विहितं कुमारस्य ? निमित्तमात्रं अत्र संपन्नोऽहं, स्वयमेव योग्योऽसि त्वमेवंविधकल्याणपरम्परायाः, मयाऽपि | हि तावकीनां पात्रतामुपलक्ष्यायं विहितो यत्नः, तथाहि स्वयंविज्ञातसद्भावा, लोकान्तिकसुरेस्तदा । यदि नाम प्रबोध्यन्ते, तीर्थनाथाः कथञ्चन ॥ २२९ ॥ तथापि ते सुरास्तेषां, न भवन्ति महात्मनाम् । गुरवस्तादृशे पक्षे, द्रष्टव्योऽयं त्वया जनः ।। २३० ॥ युग्मम् । विमलेनोक्तं महात्मन्मा मैवं वोचः न सदृशमिदमस्योदितं भवता, नहि भगवति बोधयितव्ये लोकान्तिकसुराणां निमित्तभावः, भवता तु दर्शयता भगवद्विम्बं संपादितमेव ममेदं सकलं कल्याणं, इह च-निमित्तमात्रतां योऽपि, धर्मे सर्वज्ञभाषिते । प्रतिपद्येत जीवस्य, स गुरुः पारमार्थिकः।।२३१।। एवं मे विधानस्त्वं, गुरुरेव न संशयः । उचितं तु सतां कर्तु, सद्गुरोविनयादिकम् ॥२३२॥ तस्मादुचितमेवेदं सर्व तावकोपकारस्येति । किं च-एषा भगवतामाज्ञा, सामान्यस्यापि सुन्दरम् । कार्यः साधर्मिकस्येह, विनयो वन्दनादिकः ॥ २३३ ॥ किं पुनस्ते महाभाग!, नैवं सद्धर्मदायिनः । युज्यते विनयः कर्तु, निर्मिथ्यस्यापि सद्गुरोः ॥ २३४ ॥ रत्नचूडेनोक्तं—मा मैवमादिशतु कुमारः, तथाहि-गुणप्रकर्षरूपस्त्वं, पूजनीयः सुरैरपि । त्वमेव गुरुरस्माकं, तन्नैवं वक्तुमर्हसि ॥ २३५ ॥ विमलेनोक्तं-गुणप्रकर्षरूपाणां, कृतज्ञानां महात्मनाम् । इदमेव स्फुटं लिङ्गं, यद्गुरोभक्तिपूजनम् ॥ २३६ ।। स महात्मा स पुण्यात्मा, स धन्यः स कुलोद्गतः। स धीरः स जगद्वन्द्यः, स तपस्वी स पण्डितः ॥२३७॥ यः किङ्करत्वं प्रेष्यत्वं, कर्मकारत्वमञ्जसा । दासत्वमपि कुर्वाणः, सद्रूणां न लज्जते ॥२३८॥ स कायः श्लाधितः पुंसां, यो गुरोविनयोद्यतः । सा वाणी या गुरोः स्तोत्री, तन्मनो यद्गुरौ रतम् ।। २३९ ॥ अनेकभवकोटीभिरुपकारपरैरपि । धर्मोपकारकर्तृणां, निष्क्रयो न विधीयते ॥२४०॥ अन्यच्चेदमधुना पर्यालोच्यं भवता सार्ध मया यदुत-विरक्तं तावन्मे भवचारकवासाच्चित्तं गृहीता दुःखात्मकतया विषयाः भावितो लोकोत्तरामृतास्वाद
॥४८८॥
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org