SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ उपमिती प. ५-प्र. विमलस्य सम्यक्सोत्पादा ॥४८७॥ वोऽयं, लोचनानन्ददायकः ॥ २१५ ॥ दृश्यमानो यथा धत्ते, ममाहादं तथा पुरा । नूनं कचिन्मया मन्ये, दृष्टोऽयं परमेश्वरः ॥२१॥ एवं च चिन्तयन्नेव, लोकातीतं रसान्तरम् । प्रविष्टोऽनुभवद्वारसंवेद्यमतिद्धन्दरम् ॥ २१७ ॥ यतो भवात्समारभ्य, प्राप्तं सम्यक्त्वमुत्तमम् । ततः स्मृता मया सर्वे, तदारानिखिला भवाः ॥ २१८ ॥ तमिहात्मन्नत्र मे संपन्नं अतः कृतं तन्मे भवता यत्परमगुरवः कुर्वन्तीति बुवाणो रत्नचूडचरणयोर्निपतितः पुनर्विमलकुमारः, ततो नर अलमलमतिसंभ्रमेणेति वदता समुत्थापितोऽसौ रबचूडेन साधर्मिक इति वन्दितः, सविनयं अभिहितं च-कुमार! संपन्नम मे समीहितं परिपूर्णा मनोरथाः कृतस्ते. प्रत्युपकारो यदेवं मादृशजनोऽपि ते परिचिततत्त्वमार्गप्रत्यभिज्ञाने कारणभावं प्रतिपन्न इति, खाने च कुमारस्यायं हर्षातिरेकः, यतः-सत्कलने सुते राज्ये, द्रविणे रत्नसश्चये। अवाप्ते स्वर्गसौख्ये च, नैव तोषो महात्मनाम् १२१९।। तथाहि-तुकछानि स्वल्पकालानि, सर्वाणि परमार्थतः । एतानि तेन धीराणां, नैव तोषस्य कारणम् ।। २२० ॥ जैनेन्द्रं पुनरासाद्य, मार्ग मीमे भवोदधौ । सुदुर्लभं महात्मानो, जायन्ते हर्षनिर्भराः ॥ २२१ ॥ तथाहि-संप्राप्तस्तत्क्षणादेव, मार्गः सर्वज्ञभाषितः । शमसाबामृतास्वादसंवेदनकरो नृणाम् ।। २२२ ॥ अनन्तानन्दसंपूर्णमोक्षहेतुश्च निश्चितः । अतः सतां कथं नाम, न हर्षोल्लासकारणम् ? ॥२२॥ अन्यच्च-सत्त्वानुरूपं वाञ्छन्ति, फले सर्वेऽपि जन्तवः । श्वा हि तुष्यति पिण्डेन, गजघातेन केसरी॥२२४॥ मूषको बौहिमासाद्य, नृत्यत्युत्तालहस्तकः । गजेन्द्रोऽवज्ञया भुङ्क्ते, यत्रदत्तं सुभोजनम् ॥ २२५ ॥ तथा–अदृष्टतत्त्वा ये मूढाः, स्तोकचित्ता मनुष्यकाः । धनराज्यादिकं प्राप्य, जायन्ते ते मंदोत्कटाः ॥ २२६ ॥ त्वं तु पूर्व-चिन्तामणिसमे रत्ने, लब्धे मध्यस्थतां गतः । न लक्षितो मया धीर!, हर्षदोषकलङ्कितः ॥ २२७ ॥ अधुनैवं पुनर्धन्यः, स्फुटरोमाञ्चसुन्दरः । सन्मार्गलाभे तुष्टोऽसि, साधु साधु नरोत्तम! ॥ २२८ ।। केवलमत्र जने नैवमतिगुरुत्वमारो उपकारकीर्तनं SSSSSS ॥४८७॥ Pral Jain Education is al For Private & Personel Use Only IXIww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy