SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥४८६॥ विमलस्य सम्यक्त्वोत्पाद: क्षालयमुचैर्मलमात्मीयचेतसः ॥२०७॥ तावत्तस्य समुत्पन्नं, स्वजातेः स्मरणं सदा। अतीतभवसन्तानवृत्तान्तस्मृतिकारणम् ॥२०॥ युग्मम्। अथ संजासमू»ऽसावचिन्त्यरसनिर्भरः । पतितो भूतले सद्यः, सर्वेषां कृतसंभ्रमः ॥ २०९॥ अथ वायुप्रदानेन, संजातः स्पष्टचेतनः । पृष्टं किमेतदित्येवं, रत्नचूडेन सादरम् ॥ २१० ॥ ततः प्रादुर्भवद्भक्तिः, स्फुटरोमाञ्चभूषणः । हर्षोत्फुल्लविशालाक्षः, प्रबद्धाजलिबन्धुरः ॥२११ ॥ विमलो रबचूडस्य, गृहीत्वा चरणद्वयम् । आनन्दोदकपूर्णाक्षः, प्रणनाम मुहुर्मुहुः ।। २१२ ।। प्राह च-शरीरं जीवितं बन्धु थो माता पिता गुरुः । देवता परमात्मा च, त्वं मे नास्त्यत्र संशयः॥ २१३ ॥ येनेदं दर्शनादेव, पापप्रक्षालनक्षमम् । त्वया में दर्शितं धीर!, सद्विम्ब भवभेदिनः ॥ २१४ ॥ एतद्धि दर्शयता रत्नचूड! भवता दर्शितो मे मोक्षमार्गः कृतं परमसौजन्यं छेदिता भववल्लरी उन्मूलितं दुःखजालं दत्तं सुखकदम्बकं प्रापितं शिवधामेति, रमचूडेनोक्तं-कुमार! नाहमद्यापि विशेषतोऽवमस्छामि। किमत्र संपन्नं भवतः ?, विमलेनोक्तं-आर्य! संपन्नं मे जातिस्मरणं, स्मृतोऽद्यदिनमिवातीतो मूरिभवसन्ताना, यतः "पुनरवि "शिता मया भक्तिभरनिर्भरेण भूरिभवेषु वर्तमानेन भगवद्विम्बे दृष्टिः निर्मलीकृतं सम्यग्ज्ञाननिर्मलजलेन चित्तरनं रखितं सम्यग्दर्शन | "मानसं सात्मीकृतं सदनुष्ठानं भावितो भावनामिरात्मा वासितं तत्साधुपर्युपासनयाऽन्तःकरणं सात्मीभूता मे समस्तमूतेषु मैत्री | "गतोशाशीभावं गुणाधिकेषु प्रमोदः धारितं बहुशश्चित्ते क्लिश्यमानेषु कारुण्यं दृढीभूता दुर्विनीतेषूपेक्षा निश्चलीभूतं वैषयिकसुख "खयोरौदासीन्यं तथा परिणतः प्रशमः परिचितः संवेगः चिरसंस्तुतो भवनिर्वेदः प्रगुणिता करुणा अनुगुणितमालिक्यं प्रगुणीभूता CI"गुरुभक्तिः क्षेत्रीभूतौ तपःसंयमावि”ति । ततो यावदृष्टं मयेदं भुवनमर्तुमगवतो निष्कलङ्क बिम्ब तावदई सिक्त वामृतरसेन पूस्ति "रत्या स्वीकृत इव सुखासिकया भृत इव प्रमोदेन, सतः स्फुरितं मम हृदये यदुत-रागद्वेषभवाज्ञानशोकपिपिचार्जिता महातमूरि ॥४८६ Jain Education ine For Private & Personel Use Only Sww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy