________________
उपमितौ
प. ५-प्र.
॥ ४८५ ॥
Jain Education Int
I
कुमारः यथा - कुमार ! इह क्रीडानन्दने समागतः क्क ( कदा) चित्पूर्वं मदीयमातामहो मणिप्रभः प्रतिभातमिदमतिकमनीयं काननं ततोऽत्र पुनः पुनर्विद्याधराणामवतारणार्थं महाभवनं विधाय प्रतिष्ठितं तेन भगवतो युगादिनाथस्य बिम्बं अत एव बहुशोऽहमिहागतः पूर्वततो ममानुग्रहेण तद्रष्टुमर्हति कुमारः, विमलेनोक्तं – यद्वदत्यार्य:, तदाकर्ण्य हृष्टो रत्नचूडः, ततो गता वयं भवनाभिमुखं तद् दृष्टं भगवतो मन्दिरं तच कीदृशम् ? - विमलस्फटिकच्छायं, स्वर्णराजिविराजितम् । तडिद्वलयसंयुक्तं, शरदम्बुधरोपमम् ॥ २०२ ।। विलसद्वज्रवैडूर्यपद्मरागमणित्विषा । नष्टान्धकारसम्बन्धमुद्योतितदिगन्तरम् ॥ २०३ ॥ अपिच — लसदच्छाच्छनिर्मलस्फटिकमणिनिर्मितकुट्टिमसंक्रान्तविलसत्तपनीयस्तम्भं स्तम्भविन्यस्तविद्रुमकिरणकदम्बकरक्तमुक्ताफलावचूलं अवचूलविरचितमरकतमयूखश्यामायमानसितचमरनिकरं सितचमरनिकरदण्डचामीकरप्रभापि खरितादर्शमण्डलं आदर्शमण्डलगतविराजमानारुणमणिहारनिकुरुम्बं हारनिकुरुम्बावलम्बि - तविशदहाटक किङ्किणीजालमिति । तत्र चैवंविधे भुवननाथस्य भवने प्रविश्य तैरवलोकितं भगवतो युगादिनाथस्य बिम्बं तच — दिक्षु प्रेङ्खत्प्रभाजालं, शातकुम्भविनिर्मितम् । शान्तं कान्तं निराटोपं, निर्विकारं मनोहरम् ॥ २०४ ॥ ततः सर्वैरपि विहितो हर्षभर विस्फारि - ताक्षैः प्रणामः वन्दितं च विशदानन्दपुलकोद्भेदसुन्दरं वपुर्दधानाभ्यां विधिवचूतम जरीरत्नचूडाभ्यां तचेदृशं सचराचरभुवनबन्धोर्भगवतो बिम्बं निरूपयतो विमलकुमारस्य सहसा समुल्लसितं जीववीर्य विदारितं भूरिकर्मजालं वृद्धिमुपगता सद्बुद्धिः प्रादुर्भूतो दृढतरं गुणानुरागः, ततश्चिन्तितमनेन - अहो भगवतोऽस्य देवस्य रूपं अहो सौम्यता अहो निर्विकारता अहो सातिशयत्वं चिन्त्यमाहात्म्यता, तथाहि — आकार एव व्याचष्टे, निष्कलङ्को मनोहरः । अनन्तमस्य देवस्य गुणसम्भारगौरवम् ॥ २०५ ॥ वीतरागो गतद्वेषः, सर्वज्ञः सर्वदर्शनः । सुनिश्चितमयं देवो, बिम्बादेवावगम्यते ॥ २०६ ॥ यावत्स चिन्तयत्येवं, मध्यस्थेनान्तरात्मना । विमलः
For Private & Personal Use Only
युगादिभवने प्रवेशः
॥ ४८५ ॥
www.jainelibrary.org