________________
उपमितौ
प. ५- प्र.
॥ ४८३ ॥
बहुनोक्तेन ?, नास्ति तद्वस्तु किञ्चन । महानुभाव ! लोकेऽत्र, यन्न मे बिहितं त्वया ॥ १८५ ॥ सुप्रसिद्धं चेदं लोके, यदुत — कृते प्रत्युपकारोऽत्र, वणिग्धर्मो न साधुता । ये तु तत्रापि मुह्यन्ति, पशवस्ते न मानुषाः ॥ १८६ ॥ तदीयतां ममादेशः क्रियतां | मदनुग्रहः । येन संपादयत्येष, प्रियं ते किङ्करो जनः ॥ १८७ ॥ विमलेनोक्तं – अहो कृतज्ञशेखर ! अलमतिसम्भ्रमेण किं वा न संपन्न - मस्माकं युष्मद्दर्शनेन ?, किमतोऽप्यपरं प्रियतरमस्ति ?, तथाहि वचः सहस्रेण सतां न सुन्दरं, हिरण्यकोव्याऽपि न वा निरीक्षितम् । अवाप्यते सज्जनलोकचेतसा, न कोटिलक्षैरपि भावमीलनम् ॥ १८८॥ किंवाऽत्र मया विहितं ते ? येनैवमात्मानं पुनः पुनः संभ्रमयति भद्रः, इत्येवं वदति विमले कुतः सुजनेऽर्थित्वं ? कर्तव्यश्चास्य मया कश्चित्प्रत्युपकारो न भवत्यन्यथा मे चित्तनिवृत्तिरिति मन्यमानेन प्रकटितं रत्नचूडेनैकं रत्नं हस्ततले, तच्च कीदृशं ? - किं नीलं किमिदं रक्तं, किं पीतं यदिवा सितम् । किं कृष्णमिति सुव्यक्तं, लोकदृष्ट्या न लक्ष्यते ॥ १८९ ॥ द्योतिताशेषदिक्चक्रं सर्ववर्णविराजितम् । लसदच्छप्रभाजालैर्दिक्षु बद्धेन्द्रकार्मुकम् ॥ १९० ॥ तच्च दर्शयित्वाऽभिहितं रत्नचूडेन –— कुमार ! सर्वरोगहरं धन्यं, जगद्दारिद्र्यनाशनम् । गुणैश्चिन्तामणेस्तुल्यमिदं रत्नं सुमेचकम् ॥ १९९ ॥ दत्तं ममेदं देवेन, तोषितेन स्वकर्मणा । इह लोके करोत्येतत्सर्वाशापूरणं नृणाम् ।। १९२ ॥ तदस्य ग्रहणेन ममानुग्रहं करोतु कुमारो, नान्यथा मे धृतिः संपद्यते, विमलेनोक्तं महात्मन्न कर्तव्यो भवताऽऽग्रहो न च विधेया चेतस्यवभावना दत्तमिदं त्वया गृहीतं मया केवलं तवैवेदं सुन्दरं अतः संगोप्यतामिदं मुच्यतामतिसम्भ्रमः, ततश्चतमञ्जर्योक्तं— कुमार ! न कर्तव्यो भवताऽऽर्यपुत्रस्यायमभ्यर्थनाभङ्गः, तथाहि — निःस्पृहा अपि चित्तेन, दातरि प्रणयोद्यते । सन्तो नाभ्यर्थनाभङ्गं, दाक्षिण्यादेव कुर्वते ॥ १९३ ॥ एवं च चूतम - ९ ॥ ४८३ ॥ खर्या, वदन्त्यां विमलः किल । किमुत्तरं ददामीति यावच्चिन्तयते हृदि ॥ १९४ ॥ तावद्वस्त्राभ्वले तस्य, रत्नचूडेन सादरम् । तद्रत्नं
1
Jain Education Internatio
विमलर
लवूडसंबन्धः
For Private & Personal Use Only
विमलाय रक्तदानं
www.jainelibrary.org