SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥४८॥ (कः । तद्दीयावं मे येन प्रिया बातमै वृत्तान्तः । रत्नचूडस्य स्थानादि चिद्विमलेन मया च, गवा कियत्यति बेला । अत्रान्तरे-जयश्रिया परीताङ्गो, लसत्कान्तिमनोहरः । समागतः स वेगेन, तस्या मिथुनको नरः॥ १७२ ॥ ततस्तं दृष्ट्वा सा बालिकाऽमृतसेकसिक्तेव गता परमपरितोषं, निवेदितश्च तया तस्मै वृत्तान्तः। ततः स पुरुषो विमलकुमारं प्रणम्येदमाह-बन्धुर्धाता पिता माता, जीवितं च नरोत्तम! । त्वं मे येन प्रिया धीर!, रक्षितेयं मम त्वया ॥ १७३ ॥ अथवा-दासोऽहं किङ्करो वश्यः, प्रेष्यस्ते कर्मकारकः । तद्दीयतां ममादेशः, किं करोमि तव प्रियम् ? ॥ १७४ ॥ विमलेनोक्तंमहासत्व! अलमत्र सम्भ्रमेण के वयमत्र रक्षितुं ? रक्षितेयं स्वमाहात्म्येनैव भवता । केवलं महत्कौतुकं मे कथयतु भद्र!, कोऽयं वृत्तान्तः ? किं वा ते गतस्य संपन्नमिति, तेनोक्तं यद्येवं ततो निषीदतु कुमारः महतीयं कथा ततो निषण्णाः सर्वेऽपि लतागृहके, स प्राह कुमाराकर्णय-अस्ति शरच्छशधरकरनिकरधवलो रजतमयो वैताढ्यो नाम पर्वतः, तत्र चोत्तरदक्षिणे द्वे श्रेणी, तयोश्च षष्टिः पञ्चाशच्च यथाक्रमं विद्याधरपुराणि वसन्ति, तत्र दक्षिणश्रेण्यामस्ति गगनशेखरं नाम पुरं, तत्र मणिप्रभो राजा, तस्य कनकशिखा देवी, तस्याश्च रत्नशेखरस्तनयो रत्नशिखामणिशिखे च दुहितरौ, तत्र रत्नशिखा मेघनादस्य दत्ता, मणिशिखा त्वमितप्रभस्य । ततस्तयो रत्नशिखामेघनादयोर्जातोऽहं तनयः, प्रतिष्ठितं मे नाम रत्नचूड इति, मणिशिखामितप्रभयोस्तु द्वौ सूनू जातावचलश्च चप* लश्च । रत्नशेखरस्य च रतिकान्ता पत्नी, तस्याश्चेयमेका चूतमञ्जरी दुहिता जातेति, सहक्रीडितानि सर्वाण्यपि वयं बालकाले प्राप्तानि कुमारभावं गृहीताः कुलक्रमायाता विद्याः । इतश्च रत्नशेखरस्य बालवयस्योऽस्ति चन्दनो नाम सिद्धपुत्रकः, स च-सर्वज्ञागमसद्भावभावितो निपुणस्तथा । निमित्ते ज्योतिषे मरे, सतत्रे नरलक्षणे ॥ १७५ ॥ ततस्तदीयसम्पर्कात्संजातो रत्नशेखरः । गाढं रक्तो दृढं भक्तो, धर्मे सर्वज्ञभाषिते ॥ १७६ ॥ ततो मदीयताताय, मेघनादाय सादरम् । दत्तस्तेनापि सद्धर्मो, भगिन्यै मह्यमेव च ॥ १७७॥ ॥४८ ॥ Jain Education For Private & Personel Use Only walaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy