________________
उपमितौ
॥४८॥
(कः । तद्दीयावं मे येन प्रिया बातमै वृत्तान्तः ।
रत्नचूडस्य स्थानादि
चिद्विमलेन मया च, गवा कियत्यति बेला । अत्रान्तरे-जयश्रिया परीताङ्गो, लसत्कान्तिमनोहरः । समागतः स वेगेन, तस्या मिथुनको नरः॥ १७२ ॥ ततस्तं दृष्ट्वा सा बालिकाऽमृतसेकसिक्तेव गता परमपरितोषं, निवेदितश्च तया तस्मै वृत्तान्तः। ततः स पुरुषो विमलकुमारं प्रणम्येदमाह-बन्धुर्धाता पिता माता, जीवितं च नरोत्तम! । त्वं मे येन प्रिया धीर!, रक्षितेयं मम त्वया ॥ १७३ ॥ अथवा-दासोऽहं किङ्करो वश्यः, प्रेष्यस्ते कर्मकारकः । तद्दीयतां ममादेशः, किं करोमि तव प्रियम् ? ॥ १७४ ॥ विमलेनोक्तंमहासत्व! अलमत्र सम्भ्रमेण के वयमत्र रक्षितुं ? रक्षितेयं स्वमाहात्म्येनैव भवता । केवलं महत्कौतुकं मे कथयतु भद्र!, कोऽयं वृत्तान्तः ? किं वा ते गतस्य संपन्नमिति, तेनोक्तं यद्येवं ततो निषीदतु कुमारः महतीयं कथा ततो निषण्णाः सर्वेऽपि लतागृहके, स प्राह कुमाराकर्णय-अस्ति शरच्छशधरकरनिकरधवलो रजतमयो वैताढ्यो नाम पर्वतः, तत्र चोत्तरदक्षिणे द्वे श्रेणी, तयोश्च षष्टिः पञ्चाशच्च यथाक्रमं विद्याधरपुराणि वसन्ति, तत्र दक्षिणश्रेण्यामस्ति गगनशेखरं नाम पुरं, तत्र मणिप्रभो राजा, तस्य कनकशिखा देवी, तस्याश्च रत्नशेखरस्तनयो रत्नशिखामणिशिखे च दुहितरौ, तत्र रत्नशिखा मेघनादस्य दत्ता, मणिशिखा त्वमितप्रभस्य ।
ततस्तयो रत्नशिखामेघनादयोर्जातोऽहं तनयः, प्रतिष्ठितं मे नाम रत्नचूड इति, मणिशिखामितप्रभयोस्तु द्वौ सूनू जातावचलश्च चप* लश्च । रत्नशेखरस्य च रतिकान्ता पत्नी, तस्याश्चेयमेका चूतमञ्जरी दुहिता जातेति, सहक्रीडितानि सर्वाण्यपि वयं बालकाले प्राप्तानि
कुमारभावं गृहीताः कुलक्रमायाता विद्याः । इतश्च रत्नशेखरस्य बालवयस्योऽस्ति चन्दनो नाम सिद्धपुत्रकः, स च-सर्वज्ञागमसद्भावभावितो निपुणस्तथा । निमित्ते ज्योतिषे मरे, सतत्रे नरलक्षणे ॥ १७५ ॥ ततस्तदीयसम्पर्कात्संजातो रत्नशेखरः । गाढं रक्तो दृढं भक्तो, धर्मे सर्वज्ञभाषिते ॥ १७६ ॥ ततो मदीयताताय, मेघनादाय सादरम् । दत्तस्तेनापि सद्धर्मो, भगिन्यै मह्यमेव च ॥ १७७॥
॥४८
॥
Jain Education
For Private & Personel Use Only
walaw.jainelibrary.org