SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ उपमिती प.५-अ. रत्नचूडेन समागमो विमलव ॥४७९॥ SAROKANAACAREERS एव किं संपन्नं?—आकाशे भास्कराकारौ, निष्कृष्टासी विभीषणौ । नरौ विलोकितौ तूर्णमागच्छन्तौ तदा मया ॥ १६८ ॥ ततः ससंभ्रमं तदभिमुखमवलोकयता मयाऽभिहितं—कुमार! कुमारेति, ततो विमलेनापि विस्फारिता किमेतदिति चिन्तयता तदभिमुखं विमलकोमलकमलदलविलासलासिनी दृष्टिः, अत्रान्तरे प्राप्तौ लतागृहकस्योपरि तौ पुरुषौ, ततोऽभिहितमेकेन-अरे रे निर्लज पुरुषाधम! नास्ति नश्यतोऽपि भवतो मोक्षः, तदिदानीं सुदृष्टं कुरु जीवलोकं, स्मरेष्टदेवतां, पुरुषो वा भवेति । एतच्चाकासौ लतागृहकमध्यवर्ती पुरुषो धीरा भवेति संस्थाप्य तां ललनामरे रे न विस्मर्तव्यमिदमात्मजल्पितं, पश्यामः को वाऽत्र नश्यतीति बुवाणः समाकृष्य करवालमुत्पतितस्तदभिमुखं, ततस्ताभ्यां समं तस्य, विलसत्खड्गवारणम् । प्रेवत्खणखणारावसिंहनादातिभीषणम् ॥ १६९ ॥ अनेककरणोद्दामवलानोद्धतिबन्धुरम् । जातमायोधन भीममाकाशे कृतविस्मयम् ॥ १७० ॥ तयोश्चैकः पुरुषो मुहुर्मुहुर्लतागृहकं प्रवेष्टुमभिवाञ्छति स्म, ततः सा बाला भयविह्वला वेपमानपयोधरा हरिणिकेव सिंहवासिता दशस्वपि दिक्षु चक्षुः क्षिपन्ती निर्गत्य पलायितुं प्रवृत्ता, ततो | दृष्ट्वा विमलकुमारमभिहितमनया-त्रायस्ख पुरुषोत्तम! त्रायस्ख, गताऽस्मि तवाहं शरणं, विमलेनोक्तं—सुन्दरि ! धीरा भव, नास्त्यधुना ते भयं, अत्रान्तरे तद्गृहणार्थ प्राप्तः स पुरुषः, स च विमलकुमारगुणगणावर्जितया तस्मिन्नेव गगने स्तम्भितो वनदेवतया, ततो विस्फारिताक्षोऽसौ, विलक्षो विगतक्रियः । चित्रभित्ताविव न्यस्तो, गगनस्थः स्थितो नरः ॥ १७१ ॥ अत्रान्तरे स तस्य द्वितीयः पुरुषो 3 | निर्जितस्तेन मिथुनकेन पलायितुं प्रवृत्तः लग्नस्तत्पृष्ठतो मिथुनकः दृष्टः स्तम्भितनरेण गृहीतोऽसौ रोषोत्कर्षेण प्रवृत्ता पृष्ठतो गम नेच्छा लक्षितो देवतया तद्भावः ततश्चोत्तम्भितोऽसौ वनदेवतया प्रवृत्तः पृष्ठतो वेगेन इतश्च लखितौ दृष्टेर्गोचरमितरौ गतः सोऽपि ४ ४ तदनुमार्गेणादर्शनं, ततः सा बाला आर्यपुत्र! हा आर्यपुत्र! क यासि मां मुक्त्वा मन्भाग्यामिति प्रलपितुं प्रवृत्ता, संस्थापिता कथं-18 ॥४७९॥ Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy