________________
उपमिती प.५-अ.
रत्नचूडेन समागमो विमलव
॥४७९॥
SAROKANAACAREERS
एव किं संपन्नं?—आकाशे भास्कराकारौ, निष्कृष्टासी विभीषणौ । नरौ विलोकितौ तूर्णमागच्छन्तौ तदा मया ॥ १६८ ॥ ततः ससंभ्रमं तदभिमुखमवलोकयता मयाऽभिहितं—कुमार! कुमारेति, ततो विमलेनापि विस्फारिता किमेतदिति चिन्तयता तदभिमुखं विमलकोमलकमलदलविलासलासिनी दृष्टिः, अत्रान्तरे प्राप्तौ लतागृहकस्योपरि तौ पुरुषौ, ततोऽभिहितमेकेन-अरे रे निर्लज पुरुषाधम! नास्ति नश्यतोऽपि भवतो मोक्षः, तदिदानीं सुदृष्टं कुरु जीवलोकं, स्मरेष्टदेवतां, पुरुषो वा भवेति । एतच्चाकासौ लतागृहकमध्यवर्ती पुरुषो धीरा भवेति संस्थाप्य तां ललनामरे रे न विस्मर्तव्यमिदमात्मजल्पितं, पश्यामः को वाऽत्र नश्यतीति बुवाणः समाकृष्य करवालमुत्पतितस्तदभिमुखं, ततस्ताभ्यां समं तस्य, विलसत्खड्गवारणम् । प्रेवत्खणखणारावसिंहनादातिभीषणम् ॥ १६९ ॥ अनेककरणोद्दामवलानोद्धतिबन्धुरम् । जातमायोधन भीममाकाशे कृतविस्मयम् ॥ १७० ॥ तयोश्चैकः पुरुषो मुहुर्मुहुर्लतागृहकं प्रवेष्टुमभिवाञ्छति स्म, ततः सा बाला भयविह्वला वेपमानपयोधरा हरिणिकेव सिंहवासिता दशस्वपि दिक्षु चक्षुः क्षिपन्ती निर्गत्य पलायितुं प्रवृत्ता, ततो | दृष्ट्वा विमलकुमारमभिहितमनया-त्रायस्ख पुरुषोत्तम! त्रायस्ख, गताऽस्मि तवाहं शरणं, विमलेनोक्तं—सुन्दरि ! धीरा भव, नास्त्यधुना ते भयं, अत्रान्तरे तद्गृहणार्थ प्राप्तः स पुरुषः, स च विमलकुमारगुणगणावर्जितया तस्मिन्नेव गगने स्तम्भितो वनदेवतया, ततो विस्फारिताक्षोऽसौ, विलक्षो विगतक्रियः । चित्रभित्ताविव न्यस्तो, गगनस्थः स्थितो नरः ॥ १७१ ॥ अत्रान्तरे स तस्य द्वितीयः पुरुषो 3 | निर्जितस्तेन मिथुनकेन पलायितुं प्रवृत्तः लग्नस्तत्पृष्ठतो मिथुनकः दृष्टः स्तम्भितनरेण गृहीतोऽसौ रोषोत्कर्षेण प्रवृत्ता पृष्ठतो गम
नेच्छा लक्षितो देवतया तद्भावः ततश्चोत्तम्भितोऽसौ वनदेवतया प्रवृत्तः पृष्ठतो वेगेन इतश्च लखितौ दृष्टेर्गोचरमितरौ गतः सोऽपि ४ ४ तदनुमार्गेणादर्शनं, ततः सा बाला आर्यपुत्र! हा आर्यपुत्र! क यासि मां मुक्त्वा मन्भाग्यामिति प्रलपितुं प्रवृत्ता, संस्थापिता कथं-18
॥४७९॥
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org