SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सपमितौ स्त्रीपुंसलक्षणानि - ॥४७६॥ “ध्यमो झेयस्ततोऽधस्तान सुन्दरः ॥ ११४ ॥ स्तोकदन्ता अतिदन्ता, श्यामदन्ताश्च ये नराः । मूषकैः समन्ताच, ते पापाः परिकी- "तिताः ॥११५ ।। बीभत्सैश्च करालैश्च, दन्तैर्विषमसंस्थितैः । तेऽत्यन्सपापिनो ज्ञेया, दुष्टशीला नराधमाः ॥ ११६ ।। या पद्मदलस"च्छाया, सूक्ष्मा सा शाखवेदिनाम् । भवेजिह्वा विशालाक्ष ! चित्रिता मद्यपायिनाम् ।। ११७॥ शूराणां पद्मसच्छावं, भवेचालु मनोरमम् । "कृष्णं कुलक्षयकर, नीलं दुःखस्य कारणम् ॥ ११८ ॥ हंससारसनादानुकारिणः सुखरा नराः । भवन्ति सुखिनः काकखरनादास्तु "दुःखिताः ॥ ११९ ॥ दीर्घया सुखितो नित्यं, सुभगस्तु विशुद्धया । मसा चिपिटया पापश्चौरः कुश्चितनासिकः ॥ १२॥ नीलो"त्पलदलच्छाया, दृष्टिरिष्टा मनस्विनाम् । मधुपिङ्गा प्रशस्तैव, पापा मार्जारसन्निभा ॥ १२१ ॥ सदृष्टिर्जिमदृष्टिश्च, रौद्रदृष्टिश्च केकरा । "दीनातिरक्ता रूक्षा च, पिङ्गला च विगर्हिता ।।१२२॥ इन्दीवराभा धन्यानां, गम्भीरा चिरजीविनाम् । विपुला भोगिनां दृष्टिरुच्छ(ज्व)ला "स्तोकजीविनाम् ॥ १२३ ॥ काणाद्वरतरोऽन्धः स्यात्केकरादपि काणकः । बरमन्धोऽपि काणोऽपि, केकरोऽपि न कातरः ॥ १२४ ॥ | "अषद्धलक्ष्या सततं, घूर्णते कारणं विना । रूक्षामा म्लामरूपा च, सा दृष्टिः पापकर्मणाम् ॥ १२५ ।। अधो निरीक्षते पापः, सरलं "ऋजुरीक्षते । ऊर्द्ध निरीक्षते धन्यस्तिरश्चीनं तु कोपनः ॥ १२६ ॥ दीर्धे पृथुलरूपे च, मानसौभाग्यशालिनाम् । ध्रुवौ नराणां हीने तु, |"योषिदर्थे महापदाम् ॥ १२७ ॥ लघुस्थूलौ महाभोगौ, कर्णौ तौ धनभागिमाम् । आखुकर्णे भवेन्मेधा, लोमशौ चिरजीविनाम् ॥१२॥ "ललाटपट्टी विपुलश्चन्द्राभः सम्पदाकरः । दुःखिनामतिविस्तीर्णः, संक्षिप्तः स्वल्पजीविनाम् ।। १२९ ॥ वामावर्ती भवेद्यस्य, वामायां | "दिशि मस्तके । निर्लक्षणः क्षुधाक्षामो, भिक्षामट्यात्स रूक्षिकाम् ॥ १३० ॥ दक्षिणो दक्षिणे भागे, यस्यावर्तस्तु मस्तके । तख नित्यं "प्रजायेत, कमला करवर्तिनी ॥ १३१ ॥ यदि स्याइक्षिणे वामो, दक्षिणो वामपार्श्वके । पश्चाकाले ततस्तस्य, मोगा नास्त्यत्र संशयः In४७६॥ Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy