SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सपमितौ स्त्रीपुंसलक्षणानि - ॥४७६॥ “ध्यमो झेयस्ततोऽधस्तान सुन्दरः ॥ ११४ ॥ स्तोकदन्ता अतिदन्ता, श्यामदन्ताश्च ये नराः । मूषकैः समन्ताच, ते पापाः परिकी- "तिताः ॥११५ ।। बीभत्सैश्च करालैश्च, दन्तैर्विषमसंस्थितैः । तेऽत्यन्सपापिनो ज्ञेया, दुष्टशीला नराधमाः ॥ ११६ ।। या पद्मदलस"च्छाया, सूक्ष्मा सा शाखवेदिनाम् । भवेजिह्वा विशालाक्ष ! चित्रिता मद्यपायिनाम् ।। ११७॥ शूराणां पद्मसच्छावं, भवेचालु मनोरमम् । "कृष्णं कुलक्षयकर, नीलं दुःखस्य कारणम् ॥ ११८ ॥ हंससारसनादानुकारिणः सुखरा नराः । भवन्ति सुखिनः काकखरनादास्तु "दुःखिताः ॥ ११९ ॥ दीर्घया सुखितो नित्यं, सुभगस्तु विशुद्धया । मसा चिपिटया पापश्चौरः कुश्चितनासिकः ॥ १२॥ नीलो"त्पलदलच्छाया, दृष्टिरिष्टा मनस्विनाम् । मधुपिङ्गा प्रशस्तैव, पापा मार्जारसन्निभा ॥ १२१ ॥ सदृष्टिर्जिमदृष्टिश्च, रौद्रदृष्टिश्च केकरा । "दीनातिरक्ता रूक्षा च, पिङ्गला च विगर्हिता ।।१२२॥ इन्दीवराभा धन्यानां, गम्भीरा चिरजीविनाम् । विपुला भोगिनां दृष्टिरुच्छ(ज्व)ला "स्तोकजीविनाम् ॥ १२३ ॥ काणाद्वरतरोऽन्धः स्यात्केकरादपि काणकः । बरमन्धोऽपि काणोऽपि, केकरोऽपि न कातरः ॥ १२४ ॥ | "अषद्धलक्ष्या सततं, घूर्णते कारणं विना । रूक्षामा म्लामरूपा च, सा दृष्टिः पापकर्मणाम् ॥ १२५ ।। अधो निरीक्षते पापः, सरलं "ऋजुरीक्षते । ऊर्द्ध निरीक्षते धन्यस्तिरश्चीनं तु कोपनः ॥ १२६ ॥ दीर्धे पृथुलरूपे च, मानसौभाग्यशालिनाम् । ध्रुवौ नराणां हीने तु, |"योषिदर्थे महापदाम् ॥ १२७ ॥ लघुस्थूलौ महाभोगौ, कर्णौ तौ धनभागिमाम् । आखुकर्णे भवेन्मेधा, लोमशौ चिरजीविनाम् ॥१२॥ "ललाटपट्टी विपुलश्चन्द्राभः सम्पदाकरः । दुःखिनामतिविस्तीर्णः, संक्षिप्तः स्वल्पजीविनाम् ।। १२९ ॥ वामावर्ती भवेद्यस्य, वामायां | "दिशि मस्तके । निर्लक्षणः क्षुधाक्षामो, भिक्षामट्यात्स रूक्षिकाम् ॥ १३० ॥ दक्षिणो दक्षिणे भागे, यस्यावर्तस्तु मस्तके । तख नित्यं "प्रजायेत, कमला करवर्तिनी ॥ १३१ ॥ यदि स्याइक्षिणे वामो, दक्षिणो वामपार्श्वके । पश्चाकाले ततस्तस्य, मोगा नास्त्यत्र संशयः In४७६॥ Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy