________________
उपमितौ
प. ५.प्र.
॥ ४७३ ॥
Jain Education Inte
सागराधारं, तारुण्यकमवाप सः ॥ ७१ ॥ अथाम्यदा मया सार्ध, ललमानो महामतिः । स क्रीडानन्दनं नाम, संप्राप्तो वरकाननम् ॥ ७२ ॥ तच कीदृशम् ? -- अशोकनागपुन्नागबकुलाङ्कोल्लराजितम् । चन्दनागरुकर्पूरतरुषण्डमनोहरम् ।। ७३ ।। द्राक्ष्यमण्डपविस्तारवारितातपसुन्दरम् । विलसत्केतकीगन्धगृद्ध्याऽन्धीकृतषट्पदम् ॥ ७४ ॥ अनेकतालहिंतालनालिकेरमहाद्रुमैः । यदाह्वयति हस्ताभैः, सस्प मिव नन्दनम् ॥ ७५ ॥ अपि च--- विविधाद्भुतचूतलतागृहकं, क्वचिदागतसारसहंसबकम् । सुमनोहरगन्धरणमरं, सदामपि विस्मयतोषकरम् ।। ७६ ।। स च तत्र मया सहितो विमलः, सरलो मनसा बहुपूतमलः । उपगत्य तदा सुचिरं विजने, रमते स्म मृगाक्षि ! ममोशनने ||७७|| अत्रान्तरे किं संपन्नं ? - नूपुरारवसंमिश्रः, साशङ्को निभृतो ध्वनिः । कयोश्विज्जल्पतोर्दूरादागतः कर्णकोटरम् ॥ ७८ ॥ ततो विमलेनाभिहितं—वयस्य ! वामदेव कस्यायं ध्वनिः श्रूयते ?, मयोतं – कुमार ! अस्फुटाक्षरतया न सम्यग् मयापि लक्षितो, बहूनां चात्र ध्वनिः संभाव्यते । यतोऽत्र काननाभोगे विचरन्ति यक्षाः परिभ्रमन्ति नरवराः संभाव्यन्ते विबुधा रमन्ते सिद्धा हिण्डन्ति पिशाचाः संभवन्ति भूता गायन्ति किन्नराः पर्यटन्ति राक्षसा निवसन्ति किम्पुरुषा विलसन्ति महोरगा ललन्ते गान्धर्वाः क्रीडन्ति विद्याधराः, तस्मात्पुरतो गत्वा निरूपयावः येन निश्चीयते कस्यायं शब्द इति, प्रतिपन्नमनेन, गतौ स्तोकं भूमिभागं, दृष्टा पदप|द्धतिः । विमलेनोक्तं – वयस्य ! वामदेव ! मनुषमिथुनस्य कस्यचिदेषा पदपद्धतिः, यतः पश्यैकानि पदान्यत्र, कोमलानि लघूनि च । दृश्यन्ते वालुकामध्ये, सूक्ष्मरेखाङ्कितानि च ॥ ७९ ॥ तथाऽन्यानि पुनर्व्यक्तचत्राङ्कुशझषादिभिः । लाञ्छितानि विभाव्यन्ते, पदानि बिरलानि च ॥ ८० ॥ लगन्ति च न देवानां पदानीह भुवस्तले । सामान्यपुरुषाणां च नेदृशी पदपद्धतिः ॥ ८१ ॥ तदत्र वयस्य वामदेव ! विशिष्टेन केनचिन्नरमिथुनेन भाव्यं, मयोक्तं कुमार ! सत्यमेवमिद्मग्रतो गत्वा निरूपयावः, ततो गतौ पुनः स्तोकं भू
For Private & Personal Use Only
क्रीडान
न्दर्म का
ननं
॥ ४७३ ॥
v.jainelibrary.org