________________
उपमितौ
॥ ४७१ ॥
जीव इत्येतत्तात! ते नाम पूर्वकम् । वासके वासके नाम, जायते चापरापरम् ॥ ३४ ॥ ततस्तत्र स्थितेनाहं भवता वरलोचन ! । वप. ५-प्र. ते यस्य ! प्रत्यभिज्ञातो, मृषावाद इति स्फुटम् ॥ ३५ ॥ ततस्तत्र मया सार्धं, ललितोऽसि वरानन ! । संजाता च परा प्रीतिर्मदीये ज्ञानको - शले ।। ३६ ।। पृष्टश्चाहं त्वया तोषाद्यथेदं तव कौशलम् । जातं कस्य प्रसादेन, ममानन्दविधायकम् ? ॥ ३७ ॥ मयोक्तं प्रतिपन्नाऽस्ति, | भगिनी मे महत्तमा । मूढतानन्दिनी माया, रागकेसरिणोऽङ्गजा ॥ ३८ ॥ इदं तस्याः प्रसादेन, संजातं मम कौशलम् । सा हि संनिहिता नित्यं मम मातेव वत्सला ॥ ३९ ॥ यत्र यत्र मृषावादस्तत्र तत्रेह मायया । भवितव्यमिति प्रायो, विज्ञातं बालकैरपि ॥ ४० ॥ त्वयोक्तं दर्शनीयेति, साऽऽत्मीया भगिनी मम । मयाऽपि प्रतिपन्नं वत्तावकीनं वचस्तदा ॥ ४१ ॥ ततस्तद्वचनं तात !, स्मरन्नेषोऽहमागतः । भगिनीं पुरतः कृत्वा, दर्शयामीति ते किल ॥ ४२ ॥ यावता - स तदा तादृशः स्नेहस्तव तात ! मया सह । तत्तादृशाः समुलापाः, सा च मैत्री मनोहरा ॥ ४३ ॥ तथापि न त्वं प्रत्यभिजानीषे, दृष्टमप्यधुना जनम् । महत्तरमतोऽपि स्यात्किं शोकभरकारणम् ? ॥ ४४ ॥ तदेष मन्दभाग्योऽहं भवता परिवर्जितः । क यामि क च तिष्ठामि ?, संजातश्चिन्तयाऽऽतुरः ॥ ४५ ॥ मयोक्तं न स्मरामीमं, वृत्तान्तं भद्र ! भावतः । तथापि हृदये मेऽस्ति, यथा त्वं चिरसंगतः ॥ ४६ ॥ यतः — दृष्टिर्मे शीतलीभूता, चित्तमानन्दपूरितम् । त्वयि भद्र! मृषावादे, जाते दर्शनगोचरे ॥ ४७ ॥ नूनं जातिस्मरा मन्ये, दृष्टिरेषा शरीरिणाम् । प्रिये हि विकसत्येषा, दृष्टे दन्दह्यतेऽप्रिये ॥ ४८ ॥ तस्मादत्र न कर्तव्यः शोको भद्रेण वस्तुनि । वयस्यः प्राणतुल्यस्त्वं ब्रूहि यत्ते प्रयोजनम् ॥ ४९ ॥ तेनोकमियदेवात्र, मम तात ! प्रयोजनम् । यदेषाऽऽत्मीयभगिनी, दर्शिता तेऽतिवत्सला ॥ ५० ॥ मायेति सुप्रसिद्धाऽपि जनैश्चरितरखितैः । इयं बहुलिका तात !, प्रियनान्नाऽभिधीयते ॥ ५१ ॥ तदेनया समं तात !, वर्तितव्यं यथा मया । अहं तिरोभविष्यामि, नास्ति मेऽवस
Jain Education
For Private & Personal Use Only
वामदेवस्य मायास्ते
यसमागमः
॥ ४७१ ॥
www.jainelibrary.org