________________
उपमितौ पीठबन्धः
तेन रोरेण तस्याः परिचारिकायाः पुरतोऽभिहितं यदुत-भद्रे ! सर्वथाऽधुना मुञ्चामीदं कदन्नं येनात्यन्तिकमेतत्सुखं मे संपद्यत इति, तयोक्तं-चार्विदं, केवलं सम्यगालोच्य मुच्यतां भवता, यतस्तेऽत्यन्तवल्लभमेतद्, ततो यदि मुक्तेऽपि तवात्र स्नेहबन्धोऽनुवर्तते तद्वरतरमस्यात्याग एव, यतस्तीवलौल्यविकलतया भुजानस्यापीदं भेषजत्रयासेवनगुणेनाधुना याप्यता ते विद्यते, साऽपि चात्यन्तदुर्लभा, यदि पुनरस्य सर्वत्यागं विधाय त्वमेतद्गोचरं स्मरणमपि करिष्यसि ततो रोगा भूयोऽपि कोपं यास्यन्ति, तद्वचनमाकर्ण्य तस्य दोलायिता है त्यागपराबुद्धिः, किं करवाणीति न संजातो मनसि निश्चय इति' तदिदमत्रापि जीवे तुल्यं वर्त्तते, तथाहि-“यदाऽयं सांसारिकार्थेषु चित्तानुब- मुखता "न्धत्रोटनेन ज्ञानाद्याचरणे दृढमनुसक्ततया गृहस्थावस्थायामपि वर्तमानो विज्ञातसंतोषसुखस्वरूपो भवति तदाऽस्याविच्छिन्नप्रशमसुखवा"छया प्रादुर्भवत्येव सर्वसङ्गत्यागबुद्धिः, पर्सालोचयति चात्मीयसद्बुद्ध्या सार्द्ध यदुत-किमहमस्य विधाने समर्थो न वेति ?, ततः स - "द्धिप्रसादादेवेदमेष लक्षयत्येव यथा-अनादिभवाभ्यासवशेन स्वरसप्रवृत्तिरेष जीवो विषयादिषु, ततो यदि निःशेषदोषनिवृत्तिलक्षणां भाग"वतीमपि दीक्षामुररीकृत्य पुनरयं तामनादिरूढकर्मजनितां प्रकृतिमनुवर्त्तमानो विषयादिस्पृहयाऽप्यात्मानं विडम्बयिष्यति ततोऽस्यादित| "एव तदनङ्गीकरणं श्रेयस्कर, यतस्तीब्राभिष्वङ्गरहितो विषयादिषु वर्तमानो गृहस्थोऽपि द्रव्यस्तवं ज्ञानाद्याचरणप्रधानं कुर्वाणः कर्माजीर्ण"जरणेन रागादिभावरोगतनुतामधिकृत्य याप्यतां लभते, न चेयमप्यनादौ भवभ्रमणे कचिदवाप्तपूर्वाऽनेन जीवेनातोऽत्यन्तदुर्लभेयं, यदि तु "प्रव्रज्यां प्रतिपद्य पुनर्विषयाद्यभिलाषं विधत्ते ततः प्रतिज्ञाताकरणेन बृहत्तरचित्तसंक्लेशप्राप्तेर्गुरुतररागायुद्रेकेण तामपि याप्यतां न लभते, "ततो यावदेवं निरूपयत्ययं जीवः तावदस्य चारित्रमोहनीयकर्माशैरनुवर्तमानैर्विधुरिता सती पूर्व प्रवृत्ताऽपि सर्वसङ्गत्यागबुद्धिः पुनर्दोला- ॥ ९५॥ “यते, ततः संपद्यते वीर्यहानिः, ततोऽवलम्बते खल्वयमेवंविधानि कदालम्बनानि, यदुत-सीदति तावदधुना ममेदं कुटुम्बकं, मन्मुख-15
Jain Education
a
l
For Private & Personel Use Only
ainelibrary.org