SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उपमिती पीठबन्धः ॥१६॥ | "निरीक्षक चेदं न वर्त्तते मद्विरहे, अतः कथमकाण्ड एव मुञ्चामि ?, यदिवाऽद्याप्यसंजातबलोऽयं तनयः, अपरिणीतेयं दुहिता, प्रोषितभर्तृ "केयं भगिनी, मृतपतिका वा, अतः पालनीया ममेयं, तथा नाद्यापि गृह धरणक्षमोऽयं भ्राता, जराजर्जरितशरीराविमौ मातापितरौ, | "स्नेहकातरौ च, गर्भवतीयं भार्या दृढमनुरक्तहृदया च न जीवति मद्विरहिता, अतः कथमेवं विसंस्थुलं परित्यजामि ?, यदिवा विद्यते 13 |"मे भूरिधननिचयः, सन्ति बहवोऽधमर्णाः, अस्ति च सुपरीक्षितभक्तिर्भूयान् परिकरो बन्धुवर्गश्च, तदयं पोष्यो मे वर्त्तते; तस्मादुद्राह्य | "द्रविणं लोकेभ्यः, कृत्वा बन्धुपरिकराधीनं, विधाय धर्मद्वारेण धनविनियोग, अनुज्ञातः स्वरभसेन सर्वैर्मातापित्रादिभिर्विहिताशे "षगृहस्थकृत्य एव दीक्षामङ्गीकरिष्ये, किमनेनाकाण्डविडरेणेति ?, अन्यच्च-यदिदं प्रब्रजनं नाम साक्षाद्बाहुभ्यां तरणमेतत् स्वयं- भग्नतया | "भूरमणस्य वर्त्तते, प्रतिस्रोतोगमनमेतद्गङ्गायाः, चर्वणमेतद्योयवानां, भक्षणमेतदयोगोलकानां, भरणमेतत्सूक्ष्मपवनेन कम्बल- प्रव्रज्या"मुत्कोल्याः, भेदनमेतत् शिरसा सुरगिरेः, मानग्रहणमेतत्कुशाग्रेण नीरनिधेः, नयनमेतदबिन्दुपातं धावता योजनशतं तैलापूर्ण दुष्करता"पात्र्याः, ताडनमेतत् सव्यापसव्यभ्रमणशीलाष्टचक्रविवरगामिना शिलीमुखेन वामलोचने पुत्रिकायाः, भ्रमणमेतदनपेक्षितपादपातं प्रतिभास: "निशातकरवालधारायामिति, यतोऽत्र परिसोढव्याः परिषहाः, निराकर्त्तव्या दिव्याद्युपसर्गाः, विधातव्या समस्तपापयोगनिवृत्तिः, | "वोढव्यो यावत्कथं सुरगिरिगुरुः शीलभारो, वर्तयितव्यः सकलकालं माधुकर्या वर्त्तनयाऽऽत्मा, निष्टप्तव्यो विकृष्टतपोभिर्देहः, | "स्वात्मीभावमानेतव्यः संयमः, समुन्मूलयितव्या रागादयो, निरोद्धव्यो हार्दतमःप्रसरः, किंबहुना ?, निहन्तव्योऽप्रमत्तचित्तैर्मोहमहावेताल प्रव्रज्या|"इति, मृदुशयनाहारलालितपालितं च मामकं शरीरं, तथा अपरिकर्मितमद्यापि चित्तं, तन्नतावतः प्रायेण महाभारस्योद्वहने सामर्थ्य, गुणा: ॥९६॥ "अथचैतदप्यस्ति, न यावत्सकलद्वन्द्वविच्छेदद्वारेण भागवती दीक्षाऽभ्युपगता न तावत्सम्पूर्ण प्रशमसुखमशेषक्लेशवित्रोटलक्षणो वा Jain Education a l For Private & Personel Use Only Punelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy