________________
उपमितौ
पीठबन्धः
॥९७॥
वैराग्यम्
"मोक्षोऽवाप्यत इति, न जानीमः, किं कुर्महे ?,” ततोऽयमेव जीवोऽनवाप्तकर्त्तव्यनिर्णयः सन्देहदोलारूढहृदयः कियन्तमपि कालं चिन्तयनेवावतिष्ठते, ततो यदुक्तं यदुत-अन्यदा 'तेन वनीपकेन महाकल्याणकापूर्णोदरेण तत्कदन्नं लीलया कथञ्चित् प्राशितं, ततस्तृप्त्युत्तरकालं भुक्तत्वात्तस्य यथावस्थितैरेव गुणैः कुथितत्वविरसत्वनिन्द्यत्वादिभिश्चेतसि प्रतिभातं, ततः संजातोऽस्य तस्योपरि व्यलीकीभावः, ततस्त्यक्तव्यमेवेदं मयेति सिद्धान्तीकृत्य स्वमनसा तत्त्यागार्थमादिष्टा सद्बुद्धिः, तयाऽभिहितं-धर्मबोधकरण सार्द्ध पर्यालोच्य मुच्यतामेतदिति, ततस्तदन्तिके गत्वा निवेदितः स्वाभिप्रायो वनीपकेन, तेनापि निकाचनापूर्व त्याजितोऽसौ तत्कदन्नं, क्षालितं विमलजलैस्तद्भाजनं, पूरितं परमान्नेन, विहितस्तदिने महोत्सवः, जातं जनप्रवादवशेन तस्य वनीपकस्याभिधानं सपुण्यक इति' तदिदं वृत्तान्तान्तरमस्यापि जीवस्य दोलायमानबुद्धस्तथा गृहस्थावस्थायां वर्तमानस्य कचित्संभवतीत्यवगन्तव्यं, तथाहि-यदाऽयं जीवो विदितप्रशमसुखास्वादो भवति भवप्रपञ्चाद्विरक्तचित्तस्तथापि केनचिदालम्बनेन गृहमधिवसति तदा करोत्येव विशिष्टतरं तपोनियमाभ्यास, स एष परमानाभ्यवहारोऽभिधीयते, यत्तु तस्यामवस्थायामनादरेणार्थोपार्जनं कामासेवनं वा तल्लीलया कदशनप्राशनमिति विज्ञेयं, ततो “यदा भार्या वा "व्यलीकमाचरेत् , पुत्रो वा दुर्विनीततां कुर्यात् , दुहिता वा विनयमतिलधयेत् , भगिनी वा विपरीतचारितामनुचेष्टेत, भ्राता वा धर्मद्वा“रेण धनव्ययं विधीयमानं न बहु मन्यते, जननीजनको वा गृहकर्त्तव्येषु शिथिलोऽयमिति जनसमक्षमाक्रोशेता, बन्धुवर्गो वा व्यभिचारं "भजेत, परिकरो वाऽऽज्ञा प्रतिकूलयेत् , स्वदेहो वाऽतिलालितपालितोऽपि खलजनवद्रोगादिकं विकारमादर्शयेत् , धननिचयो वा अकाण्ड "एव विद्युल्लताविलसितमनुविध्यात्, तदाऽस्य जीवस्य परमान्नतृप्तस्य कुभोजनमिव समस्तोऽपि संसारविस्तरः सुतरां यथावस्थितस्वरूपेण "मनसि प्रतिभासयेत् ," ततस्तदाऽयं विविक्तेन चेतसा प्रादुर्भूतसंवेगः सन्नेवं भावयेत्-अये! यदर्थमहं विज्ञातपरमार्थोऽपि स्वकार्यमवधीर्य
॥९७॥
उ. भ.९
Jain Education
a
l
For Private & Personal Use Only
Pirjainelibrary.org