________________
उपमितौ सदनमधिवसामि तस्य स्वजनधनादेरेवंविधः परिणामः, तथापि ममापर्यालोचितकारिणो नास्योपरि मेह(:) [मोहः] प्रवर्त्तमानो निवर्त्तते, पीठबन्धः नूनमविद्याविलसितमेवेदं, यदीदृशेऽप्यत्र चेतसः प्रतिबन्धः, तत्किमर्थमनर्थव्यामूढहृदयः खल्वहमात्मानं वश्चयामि, तस्मान्मुञ्चामीदं
सकलं जम्बालकल्पं कोशिकाकारकीटस्येवात्मबन्धनमात्रफलं बहिरन्तरङ्गसङ्गकदम्बकं, यद्यपि यदा यदा पर्यालोच्यते तदा तदा विषय॥९८॥
स्नेहकलाकुलितचेतसि दुष्करोऽस्य त्यागः प्रतिभासते तथाऽपि त्यक्तव्यमेवेदं मया, पश्चाद्यद्भाव्यं तद्भविष्यति, अथवा किमत्र यद्भाव्यं ?, न भविष्यत्येव मे किञ्चित्परित्यक्तेऽस्मिन्नसुन्दरं, किन्तर्हि ?, निरुपचरितश्चित्तप्रमोद एव संजनिष्यते, ततो यावदेष जीवोऽत्र परिग्रहकर्दमे गज इव निमग्नोऽवसीदति तावदेवास्यायमतिदुस्त्यजः प्रतिभासते, यदा पुनरयमेतस्मान्निर्गतो भवति तदाऽयं जीवः सति विवेके नास्य धनविषयादेः संमुखमपि निरीक्षते, को हि नाम सकर्णको लोके महाराज्याभिषेकमासाद्य पुनश्चाण्डालभावमात्मनोऽभिलपेत् ?, तदेवमेष जीवस्त्यक्तव्यमेवेदं मया नास्ति त्यजतः कश्चिदपायः इति स्थितपक्षं करोति, ततश्च पुनः सद्बुद्ध्या पर्यालोचयन्ने निश्चिनुते, यदुतप्रष्टव्या मयाऽत्र प्रयोजने सद्धर्मगुरवः, ततो गत्वा तत्समीपे तेभ्यः सविनयं स्वाकूतं निवेदयति, ततस्ते तमुपबृंहयन्ति, साधु भद्र ! सुन्दरस्तेऽध्यवसायः, केवलं महापुरुषक्षुण्णोऽयं मार्गः त्रासहेतुः कातरनराणां, ततोऽत्र प्रवर्तितुकामेन भवता गाढमवलम्बनीयं धैर्य, न
खलु विशिष्टचित्तावष्टम्भविकलाः पुमांसोऽस्य पर्यन्तगामिनः संपद्यन्ते, सेयं निकाचना विज्ञेया, ततोऽयं जीवस्तद्गुरुवचनं तथेति भावतः ल प्रतिपद्यते, ततो गुरवः सम्यक् परीक्ष्य सन्निहितगीतार्थंश्च सार्द्ध पर्यालोच्य योग्यतामेनं प्रव्राजयेयुरिति, ततश्च समस्तसङ्गत्यागकारणं *
कदन्नत्याजनतुल्यं वर्त्तते, आजन्मालोचनादापनपुरस्सरं प्रायश्चित्तेन तज्जीवितव्यस्य विशोधनं विमलजलैर्भाजनक्षालनकल्पं विज्ञेयं, चारित्रारोपणं तु तस्यैव परमान्नपूरणसदृशमवगन्तव्यमिति, भवति च सद्गरूपदेशप्रसादादेवास्य जीवस्य दीक्षाग्रहणकाले भव्यप्रमोदहेतुश्चैत्यसं
दीक्षा
दानं
का॥९८॥
Jain Educatiointe
For Private Personal use only