________________
उपमितौ पीठबन्धः
॥ ९४ ॥
“अन्यच्च — भवतोऽयं परमार्थः कथ्यते, यथा यथाऽयं पुरुषो निःस्पृहीभवति तथा तथाऽस्य पात्रतया सकलाः संपदः संपद्यन्ते, "यथा यथा संपदभिलाषी भवति तथा तथा तदयोग्यतामिव निश्चित्य तास्ततो गाढतरं दूरीभवन्ति, तदिदं निश्चित्य भवता सर्वत्र सांसारिकप"दार्थसार्थे नास्था विधेया, ततस्ते स्वप्नदशायामपि पीडागन्धोऽपि मनः शरीरयोर्नैव संपत्स्यत इति,” ततोऽयं जीवस्तमुपदेशममृतमिव गृहीयात्, ततस्ते धर्मगुरवः संपन्ना सद्बुद्धिरस्येतिकृत्वा नेदानीमेषोऽन्यथा भविष्यतीति तं प्रति निश्चिन्ता भवेयुरिति । ततः प्रादुर्भूतसगुद्धिरयं जीवो यद्यपि श्रावकावस्थायां वर्त्तमानः कुरुते विषयोपभोगं, आदत्ते धनादिकं, तथापि यस्तत्राभिष्वङ्गोऽतृप्तिकारणभूतः स न भवति, ततो ज्ञानदर्शनदेशचारित्रेषु प्रतिबद्धान्तः करणस्य तस्य ते द्रविणभोगादयो यावन्त एव संपद्यन्ते तावन्त एव सन्तोषमुत्पादयन्ति, ततोऽयं सद्बुद्धिप्रभावादेव तदानीं यथा ज्ञानादिषु यतते न तथा धनादिषु ततोऽपूर्वा न वर्द्धन्ते रागादयः तनूप्रभवन्ति प्राचीनाः, तथा पूर्वोपचितकर्मपरिणतिवशेन यद्यपि कचिदवसरे काचिच्छरीरमनसोर्वाधा संपद्यते तथापि सा निरनुबन्धतया न चिरमवतिष्ठते, ततो जानीते तदाऽयं जीवः सन्तोष सन्तोषयोर्गुणदोषविशेषं, संजायते चोत्तरगुणस्कन्दनेन चित्तप्रमोद इति । ततो यथा - ' तेन वनीपकेन तया सद्बुद्ध्या परिचारिकया सह पर्य्यालोचितं भद्रे ! किन्निमित्तः खल्वेष मम देहचेतसोः प्रमोदः ?, तया च कदन्नलौल्यवर्जनं भेषजत्रयासेवनं च तस्य कारणमाख्यातं, तत्र युक्तिश्चोपन्यस्ता' तदिहापि समानमेव, तथाहि — सद्गुद्ध्यैव सह पर्यालोचयन्नेष जीवो लक्षयति, यदुत — यदेतत्स्वाभाविकं देहमनोनिवृत्तिरूपं सुखमाविर्भूतं मम अस्य निबन्धनं विषयादिष्वभिष्वङ्गत्यागो ज्ञानाद्याचरणं च, तथाहि — प्रागभ्यासवशेन विषयादिषु प्रवर्त्तमानोऽप्येष जीवः सद्बुद्धिकलितः सन्नेवं भावयति न युक्तमीदृशं विधातुं मादृशां ततो गृद्धिविकलता निवर्त्तते चेतसोऽनुबन्धः, ततः संपद्यते प्रशमसुखासिकेत्ययमत्र युक्तेरुपन्यासो विज्ञेय इति, ततः — ' यदुपलब्धसुखरसेन
Jain Educats national
For Private & Personal Use Only
रागादिहानिश्च
समुद्ध्या स्वस्वरूप
चिन्ता
॥ ९४ ॥
w.jainelibrary.org