________________
उपमिती पीठबन्धः
॥९३ ॥
तथाऽपि क्रियमाणस्य तस्येतरस्य च दृष्ट एव भवता विशेषः, वयं चानेकसत्त्वोपकारकरणव्यग्राः, न सदा सन्निहिता भवन्तं वारयितुं| पारयामः, एवं च स्थिते न यावद्भवतः स्वकीया सद्बुद्धिः संपन्ना तावदेषाऽस्मन्निवारिताचरणनिबन्धनाऽनर्थपरम्परा भवन्ती न विनिवतैते, सद्बुद्धिरेव हि परप्रत्ययमनपेक्ष्य स्वप्रत्ययेनैव जीवमकार्यान्निवारयति, ततो मुच्यतेऽनर्थेभ्य इति, ततोऽयं जीवो ब्रूयात्-नाथाः! साऽपि भवत्प्रसादादेव यदि परं मम संपत्स्यते, नान्यथा, ततो गुरवोऽभिदध्यु:-"भद्र ! दीयते सद्बुद्धिः, वचनायत्ता हि सा मादृशां "वर्त्तते, केवलं दीयमानाऽपि सा पुण्यभाजामेव जन्तूनां सम्यक् परिणमति, नेतरेषां, यतः पुण्यभाज एव तस्यामादरवन्तो जायन्ते, | "नापरे, तदभावभाविनो हि देहिनां सर्वेऽनर्थाः, तदायत्तान्येव सकलकल्याणानि, तस्यामेव च ये महात्मानो यतन्ते त एव भगवन्तं
“सर्वज्ञमाराधयन्ति, नेतरे, तत्संपादनार्थः खल्वेष मादृशां वचनप्रपञ्चः, सद्बुद्धिविकलानां हि पुरुषाणां व्यवहारतः संजातान्यपि ज्ञाना| "दीनि नासंजातेभ्यो विशिष्यन्ते, स्वकार्याकरणात् , किंबहुनोक्तेन ?, सद्बुद्धिविकलः पुरुषो न पशूनतिशेते, तस्माद्यदि तेऽस्ति सुखाकाङ्क्षा | "दुःखेभ्यो वा यदि बिभेषि ततोऽस्यामस्माभिर्दीयमानायां सद्बुद्धौ यत्नो विधेयः, तस्यां हि यत्नवता समाराधितं प्रवचन बहुमतो भुवन| "भर्ता, परितोषिता वयं, अङ्गीकृतं लोकोत्तरयानं, परित्यक्ता लोकसंज्ञा, समासेविता धर्मचारिता, समुत्तारितो भवोदधेरात्मा भवतेति” ततो भगवतां सद्धर्मगुरूणामेवंविधवचोऽमृतप्रवाहप्रह्लादितहृदयोऽयं जीवस्तद्वचनं तथेति प्रतिपद्यते, ततस्ते तस्मै दगुरुपदेशं यदुतसौम्येदमेवात्र परमगुह्यं सम्यगवधारणीयं भवता यदुत-“यावदेष जीवो विपर्यासवशेन दुःखात्मकेषु धनविषयादिषु सुखाध्यारोपं | “विधत्ते सुखात्मकेषु वैराग्यतपःसंयमादिषु दुःखाध्यारोपं कुरुते तावदेवास्य दुःखसम्बन्धः, यदा पुनरनेन विदितं भवति-विषयेषु | "प्रवृत्तिर्दुःखं, धनाद्याकाङ्क्षानिवृत्तिः सुखं, तदाऽयमशेषेच्छाविच्छेदेन निराकुलतया स्वाभाविकसुखाविर्भावात् सततानन्दो भवति,
उपदेश
दानं
॥९३॥
Jain Educat
i onal
For Private & Personel Use Only
R
Mrjainelibrary.org