SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ SCX उपमिती पीठबन्धः ॥१२॥ सद्धि पुना रोगविकाराविर्भाव इत्यभिधीयते, ततो यथा पुनस्तेन द्रमकेण तस्मै सूदाय स्ववृत्तान्तं निवेद्येदमभिहितं यदुत-'नाथास्तथा यतध्वं यथा न मे स्वप्नान्तेऽपि पीडोपजायते, ततस्तेनोक्तं-इयं तद्दया व्यग्रतया न सम्यक् तवापथ्यनिवारणं विधत्ते, ततः करोम्यन्यां निय॑नां तव परिचारिका, केवलं तद्वचनकारिणा भवता भाव्यं, ततः प्रतिपन्नं तत्तेन, दत्ता तस्मै निःसाधारणा सदद्धिर्नाम परिचारिका सूदेन, ततस्तद्गणेन निवृत्तं तस्यापथ्यलाम्पट्यं, ततस्तनूभूता रोगाः, निवृत्तप्रायास्त द्विकाराः, संपन्ना मनाग शरीरे सुखासिका, वर्द्धितश्चानन्द इति' तथैष व्यतिकरो जीवेऽपि समानो वर्तते, तथाहि-यथा धावन्नन्धो भित्तिस्तम्भादौ लब्धास्फोटो वेदनाविह्वलस्तामास्फोटवेदनां परस्मै कथयति तथाऽयमपि जीवो यदा गुरुनिवारिताचरणेन दृष्टापायत्वात् संजातप्रत्ययो भवति तदा ताननेकप्रकारानपायान् गुरुभ्यो निवेदयति, यदुत-"भगवन्नहं यदा युष्मन्निवारणया न गृह्णामि स्तेनाहृतं, न करोमि विरुद्धराज्यातिक्रम, नाचरामि वेश्यादिग"मनं, नानुतिष्ठामि तथाविधमन्यदपि [धर्म लोकविरुद्धं, न रज्यामि महारम्भपरिग्रहयोः, तदा मां लोकः साधुतया गृह्णाति, मयि विश्रम्भं "विधत्ते, श्लाघां चाचरति, तथा न जानामि शरीरायासजनितं दुःखं, संपद्यते हृदयस्वास्थ्य, धर्मश्चैवं तिष्ठतां सुगतिप्रापको भवतीतिभा"वनया भवति चित्तानन्द इति, यदा तु युष्मन्निवारणा न भवति भवन्ती वा तामनपेक्ष्य निर्भयतया न जानन्ति मां गुरव इत्यभिप्रायेण | "धनमूर्छनया गृह्णामि स्तेनाहृतादिकं विषयलौल्येन गच्छामि वेश्यादिकं समाचरामि तादृशमन्यदपि भगवन्निवारितं तदा लोकादश्लाघां | "राजकुलात्सर्वस्वहरणं शरीरखेदं मनस्तापमपरांश्च समस्ताननानिहलोक एव प्राप्नोमि, पापं च दुर्गतिगर्तपातहेतुरेवं वर्तमानानां भवती| "तिचिन्तया दन्दह्यमानहृदयः क्षणमपि सुखं न लभेऽहमिति, तस्मान्नाथास्तथा कुरुध्वं यूयं यथाऽहमनवरतं युष्मद्वचनाचरणसन्नाहेन स"ततमेतस्माद्नर्थशरजालाद्रक्षितो भवामी”ति, ततस्तदाकर्ण्य गुरवो ब्रूयुः-भद्र ! यदेतत्परप्रत्ययेनाकार्यवर्जनं, कादाचित्कमेतत् , केवलं | ॥९२ ।। Jain Education For Private & Personel Use Only Pahelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy