________________
उपमितौ पीठबन्धः
॥११॥
“न दूरवर्त्तिन्यो धनार्जनरक्षणप्रवणानां नाना व्यापदः, तथापि भवतस्तत्रैव गाढतरं प्रतिबन्धः, यत्पुनरेतदशेषलेशराशिमहाऽजीर्णविरेक-13 "कारितया परमस्वास्थ्यकारणं ज्ञानदर्शनचारित्रत्रयं तदनादरेणावलोकयसि त्वं, तत्र किं कुर्मो वयं ?, यदि किञ्चिद् ब्रूमस्ततो भवाना| "कुलीभवति, ततो दृष्टवृत्तान्ता वयं भवन्तमनेकोपद्रवैरुपद्रूयमानं पश्यन्तोऽपि तूष्णीमास्महे, न पुनराकुलताभयाद्भवन्तममार्ग प्रस्थितमपि
"वारयामः, आदरवतामेव पुंसां विरुद्धकर्माणि परिहरतां ज्ञानदर्शनदेशचारित्राण्यनुतिष्ठतां तानि विकारनिवारणायालं, नानादरवा, यदा | "चास्माकं पश्यतामपि त्वं रागादिरोगैरभिभूयसे तदा भवद्गुरव इतिकृत्वा वयमप्युपालम्भभाजनं लोके भविष्यामः” इति, सोऽयं तद्दयाविहितस्तदुपालम्भ इत्युच्यते, ततोऽयं जीवो गुरूनभिदधीत-भगवन् ! अनादिभवाभ्यस्ततया मां मोहयन्तीमे तृष्णालौल्यादयो भावाः, ततस्तदशगोऽहं न सदाऽऽरम्भपरिग्रहं जानन्नपि तद्दोषविपाकं मोक्तुं शक्नोमि, ततो भगवद्भिर्नाह मुपेक्षणीयो, निवारणीयो यत्नतोऽसत्प्रवृत्तिं प्रार्थना कुर्वाणः, कदाचिद्भवन्माहात्म्येनैव मे स्तोकस्तोकां दोषविरतिं कुर्वतः परिगतिविशेषेण सर्वदोषत्यागेऽपि शक्तिः संपत्स्यत इति, ततः प्रति- गुरोरुद्यपद्यन्ते तद्वचनं गुरवः, चोदयन्ति प्रमाद्यन्तं कचिदवसरे, संपद्यते प्राक्प्रवृत्तपीडोपशमः तद्वचनकरणेन, प्रवर्द्धन्ते ज्ञानादयो गुणास्त-18 मश्च त्प्रसादेन, सोऽयं तद्दयावचनकरणेन मनागारोग्यलक्षणः संजातो विशेष इत्युच्यते । केवलमय जीवो विशिष्टपरिणामविकलतया यदैव ते चोदयन्ति तदैव स्वहितमनुचेष्टते, तच्चोदनाऽभावे पुनः शिथिलयति सत्कर्त्तव्यं, प्रवर्त्तते निर्भरं भूयोऽसदारम्भपरिग्रहकरणे, ततश्चोल्लसन्ति । रागादयो, जनयन्ति मनःशरीरविविधबाधाः, ततस्तवस्थैव विह्वलतेति, तेषां तु भगवतां गुरूणां यथाऽयं प्रस्तुतजीवः सच्चोदनादानद्वारेण परिपाल्यस्तथा बहवोऽन्येऽपि तथाविधा विद्यन्ते, ततश्च समस्तानुग्रहप्रवणास्ते कदाचिदेव विवक्षितजीवचोदनामाचरन्ति, शेषकालं तु मुत्कलतया वाहितमनुतिष्ठन्तमेनं न कश्चिद्वारयति, ततश्चायमनन्तरोक्तोऽनर्थः संपद्यत इति, सोऽयं तद्दयासन्निधानविरहादपथ्यसेवनेन
MOR
Jain Education
For Private & Personel Use Only
Planelibrary.org