SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥११॥ “न दूरवर्त्तिन्यो धनार्जनरक्षणप्रवणानां नाना व्यापदः, तथापि भवतस्तत्रैव गाढतरं प्रतिबन्धः, यत्पुनरेतदशेषलेशराशिमहाऽजीर्णविरेक-13 "कारितया परमस्वास्थ्यकारणं ज्ञानदर्शनचारित्रत्रयं तदनादरेणावलोकयसि त्वं, तत्र किं कुर्मो वयं ?, यदि किञ्चिद् ब्रूमस्ततो भवाना| "कुलीभवति, ततो दृष्टवृत्तान्ता वयं भवन्तमनेकोपद्रवैरुपद्रूयमानं पश्यन्तोऽपि तूष्णीमास्महे, न पुनराकुलताभयाद्भवन्तममार्ग प्रस्थितमपि "वारयामः, आदरवतामेव पुंसां विरुद्धकर्माणि परिहरतां ज्ञानदर्शनदेशचारित्राण्यनुतिष्ठतां तानि विकारनिवारणायालं, नानादरवा, यदा | "चास्माकं पश्यतामपि त्वं रागादिरोगैरभिभूयसे तदा भवद्गुरव इतिकृत्वा वयमप्युपालम्भभाजनं लोके भविष्यामः” इति, सोऽयं तद्दयाविहितस्तदुपालम्भ इत्युच्यते, ततोऽयं जीवो गुरूनभिदधीत-भगवन् ! अनादिभवाभ्यस्ततया मां मोहयन्तीमे तृष्णालौल्यादयो भावाः, ततस्तदशगोऽहं न सदाऽऽरम्भपरिग्रहं जानन्नपि तद्दोषविपाकं मोक्तुं शक्नोमि, ततो भगवद्भिर्नाह मुपेक्षणीयो, निवारणीयो यत्नतोऽसत्प्रवृत्तिं प्रार्थना कुर्वाणः, कदाचिद्भवन्माहात्म्येनैव मे स्तोकस्तोकां दोषविरतिं कुर्वतः परिगतिविशेषेण सर्वदोषत्यागेऽपि शक्तिः संपत्स्यत इति, ततः प्रति- गुरोरुद्यपद्यन्ते तद्वचनं गुरवः, चोदयन्ति प्रमाद्यन्तं कचिदवसरे, संपद्यते प्राक्प्रवृत्तपीडोपशमः तद्वचनकरणेन, प्रवर्द्धन्ते ज्ञानादयो गुणास्त-18 मश्च त्प्रसादेन, सोऽयं तद्दयावचनकरणेन मनागारोग्यलक्षणः संजातो विशेष इत्युच्यते । केवलमय जीवो विशिष्टपरिणामविकलतया यदैव ते चोदयन्ति तदैव स्वहितमनुचेष्टते, तच्चोदनाऽभावे पुनः शिथिलयति सत्कर्त्तव्यं, प्रवर्त्तते निर्भरं भूयोऽसदारम्भपरिग्रहकरणे, ततश्चोल्लसन्ति । रागादयो, जनयन्ति मनःशरीरविविधबाधाः, ततस्तवस्थैव विह्वलतेति, तेषां तु भगवतां गुरूणां यथाऽयं प्रस्तुतजीवः सच्चोदनादानद्वारेण परिपाल्यस्तथा बहवोऽन्येऽपि तथाविधा विद्यन्ते, ततश्च समस्तानुग्रहप्रवणास्ते कदाचिदेव विवक्षितजीवचोदनामाचरन्ति, शेषकालं तु मुत्कलतया वाहितमनुतिष्ठन्तमेनं न कश्चिद्वारयति, ततश्चायमनन्तरोक्तोऽनर्थः संपद्यत इति, सोऽयं तद्दयासन्निधानविरहादपथ्यसेवनेन MOR Jain Education For Private & Personel Use Only Planelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy