________________
सब
उपमितौमुत्तरोत्तरविशेषैरुद्दीपयति न स्वोत्साहेनेति, यत्तु विशेषेण पुनरभिहितं यथा-'स वनीपकः संभ्रमेण तद्दयया भूरि वितीर्ण तत्परमानं पुनर्धर्मपीठबन्धः स्तोकं भुक्त्वा शेषमनादरेण स्वभाजने विधत्ते, तत्सान्निध्येन तत्कदन्नमभिवर्द्धते, ततस्तद् भक्षयतोऽपि दिवानिशं न निष्ठां याति, ततोऽसौ ऽनादरः
तुष्यति, न च जानीते कस्येदं माहात्म्यं, केवलं तत्र गृद्धात्मा भेषजत्रयस्य परिभोग शिथिलयन् कालं नयति, तथा चापथ्यभोजिनस्तस्य | ॥८९॥
ते रोगा नोच्छिद्यन्ते, केवलं यदन्तराऽन्तरा तद्दयोपरोधेन तत्परमान्नादिकमसौ मनाग् प्राशयति तावन्मात्रेण ते रोगा याप्यावस्था गतास्तिष्ठन्ति, यदा पुनरनात्मज्ञतया भृशतरमपथ्यं सेवते तदा ते रोगाः कचिदात्मीयं विकारं दर्शयन्तः शूलदाहमूर्छारोचकादीनि | जनयन्ति, ततस्तैरसौ बाध्यत इति तत्रापि जीवे समानमवबोद्धव्यं, तथाहि-यथा कचिदवसरे चातुर्मासकादौ दयापरीतचित्ता गुरवोऽस्य जीवस्य पुरतो विशिष्टतरविरतिपाहणार्थमणुव्रतविधिं विस्फारयन्ति, तदाऽप्ययं जीवः प्रबलचारित्रावरणतया मन्दवीर्योल्लासस्तीवसंवेगेन कानिचिदेव व्रतानि गृह्णाति, तदिदं बहोर्दत्तस्य स्तोकभक्षणमभिधीयते, कानिचित्पुनव्रतानि दयापरीतगुरूपरोधेन मनसोऽनभि-12 प्रेतान्यप्यङ्गीकरोति, सोऽयं शेषस्य भाजने निक्षेपो द्रष्टव्यः, तच्च व्रताङ्गीकरणं मन्दसंवेगेनापि क्रियमाणमनुषङ्गत एव विषयधनादीन्यत्र भवे भवान्तरे वाऽभिवर्धयति, तदिदं परमान्नसन्निधानेनेतरस्याभिवर्द्धनमभिहितं, ते च तत्प्रभावसंपन्ना विषयादयो दृढकारणतयाऽनवरतं भुञानस्याप्यस्य जीवस्य न निष्ठां प्रतिपद्यन्ते, ततोऽयं जीवः सुरनरभवेषु वर्तमानस्तां तथाभूतामात्मविभूतिमुपलभ्य हर्षमुद्वहति, न चायं 3 वराको लक्षयति यथा-एते धनविषयादयो धर्ममाहात्म्येन ममोपनमन्ते तत्किमत्र हर्षेण ?, स एव भगवान् धर्मः कर्तुं युक्त इति, ततो-४ ऽयमलक्षितसद्भावस्तेषु विषयादिषु प्रतिबद्धचित्तो ज्ञानदर्शनदेशचारित्राणि शिथिलयति, केवलं जानन्नप्यजानान इव मोहदोषेण निरर्थका ॥८९॥ कालमतिवाहयति, एवं चास्य वर्त्तमानस्य द्रविणादिषु प्रतिबद्धमानसस्य धर्मानुष्ठाने मन्दादरस्य भूयसाऽपि कालेन रागाद्यो भावरोगा
Jain Educa
t ional
For Private & Personel Use Only
R
jainelibrary.org