________________
उपमितौ पीठबन्धः
॥ ८६ ॥
तथापि कर्मपरतन्त्रतयाऽहं भक्षितबहुमाहिषदधिवृन्ताकसंघात इव निद्रां पीतामन्त्रपूततीत्रविष इव विह्वलतां धनविषयादिष्वनादिभवाभ्यासवशेन भवन्तीं मूर्च्छा न कथञ्चिन्निवारयितुं पारयामि, तया च विह्वलीभूतचेतसो मे भगवतां सम्बन्धिनीं धर्मदेशनां महानिद्राऽवष्टब्धहृदयस्येव पुरुषस्य प्रतिबोधकनरोच्चारितां शब्दपरम्परां समाकर्णयतोऽपि गाढमुद्वेगकारिणीव प्रतिभासते, अथ च तस्या माधुर्यं गाम्भीर्यमुदारतां परिणामसुन्दरतां च पर्यालोचयतः पुनरन्तराऽन्तरा चित्ताहादोऽपि संपद्यते, एतदपि पूर्वोक्तं यद् भगवद्भिरभ्यधायियदुत नाशक्नुवन्तं वयं सङ्गत्यागं कारयाम इति, ततो मया नष्टभयवैधुर्येण भगवतां पुरतः कथयितुं शकितं, इतरथा यदा यदा भगवन्तो |देशनायां प्रवर्त्तन्ते स्म तदा तदा मम चेतसि विकल्पः प्रादुरभूत् - अये ! स्वयं निस्पृहास्तावदेते, केवलं मां धनविषयादिकं त्याजयन्ति, न चाहं हातुं शक्नोमि तदेष व्यर्थकः प्रयासोऽमीषामित्येवं चिन्तयन्नपि भयातिरेकान्न स्वाकूतमपि प्रकटयितुं पारितवानिति, तदेवं स्थिते यन्मया विधेयमेवंविधशक्तिना तत्र भगवन्तः श्रीसूरय एव प्रमाणमिति, ततो यथा 'असौ पौरोगवस्तस्मै वनीपकाय पुनः प्रपञ्चतो निवेद्य प्राचीनमशेषमर्थं ततः स्वकीयभेषजत्रयस्य योग्यायोग्यविभागं पूर्व महानरेन्द्रसंप्रदायितमाचचक्षे, तं चोवाच यथा - 'भद्र ! कृच्छ्रसाध्यत्वमतो महायात्नमन्तरेण न रोगोपशमस्ते दृश्यते, तस्मादत्रैव राजमन्दिरे प्रयतो भूत्वा ध्यायन्ननवरतमेनं समस्तगदोद्दलनक्षमवीर्यातिशयं महाराजेन्द्र भेषजत्रयोपभोगं चाहर्निशं कुर्वाणस्तिष्ठेति, इयं च तद्दया तब परिचारिका, ततः प्रतिपन्नं समैस्तं तेन, स्थितः कियन्तमपि कालं विधायैकदेशे तद्भिक्षाभाजनमनारतं तदेव पालयन्निति' तदिदमत्रैवं योजनीयम् - यदाऽयं जीवः प्रागुक्तन्यायेन निवेद्य स्वाभिप्रायं गुरुभ्यः पुनरुपदेशं याचते तदा ते तदनुकम्पया पूर्वोक्तं पुनरपि समस्तं प्रतिपाद्य पश्चात्तस्य व्युत्पादनार्थं येनायं कालान्तरेणापि न व्यभिचरतीति १ महानसाधिपः, २ तिष्ठति. ३ सरभासं.
Jain Educatinational
For Private & Personal Use Only
गुरोरुपर्यास्था
॥ ८६ ॥
jainelibrary.org