________________
उपमितौ पीठबन्धः ॥ ८५ ॥
उ. भ. ८
Jain Educatio
यत्पुनरेतदनन्तरमेव तव पुरतोऽस्माभिर्महाराजगुणवर्णनादिकं विहितं कर्त्तव्यतया च तव किञ्चित्समादिष्टं तत्त्वया किं किञ्चिदवधारितं वा न वेति ?' तथा धर्मगुरवोऽपि सर्वमिदं चिन्तयन्ति वदन्ति च तच स्पष्टतरमिति स्वबुद्ध्यैव योजनीयं ततो यथा 'असौ वनीपको - वादीत् यथा - नाथ ! न मया किञ्चिदत्र भवत्कथितमुपलक्षितं, तथापि तावकैः कोमलालापैरुल्लसितो मनाग् मनसि प्रमोदः, निवेदितैश्च तेन वनीपकेन 'नाधुना किञ्चित्त्याजयामीदं भवन्तं भोजन मिति सूदवचनश्रवणान्नष्टभयाकूतेन सता स्वचेतसो वैधुर्यकारणभूतस्तस्य सूदस्य समक्षमादितः प्रभृति समस्तोऽप्यात्मवृत्तान्तः, अभिहितश्चासौ सूपकारो यदुत - ' एवं स्थिते यन्मया विधेयं तदाज्ञापयन्तु नाथाः, येनाधुनाऽवधारयामीति तथाऽत्रापि विदिततश्चित्ता यदा धर्मगुरवो वदन्ति, यदुत न वयं भवन्तमशक्नुवन्तं सर्वसङ्गत्यागं कारयामः, केवलं यदिदं भवतः स्थिरीकरणार्थमनेकशो भगवद्गुणवर्णनादिकं वयं कुर्मः यच सम्यग्ज्ञानदर्शनचारित्राणामङ्गीकृतानामेव भवता सातत्यमनुपालनादिकमुपदिशामः, तदत्र भवान् किञ्चिदवधारयति वा न वेति ?, तदा वदत्येवं जीवो - भगवन्नाहं सम्यक्किश्विदवधारयामि, तथापि यौष्माकीणपेशलवचनैर्मोदितचित्तो यदा यदा कथयन्ति भगवन्तस्तदा तदा शून्यहृदयोऽपि विस्फारितेक्षणः किल बुध्यमान इवेत्याकर्णयंस्तिष्ठामि कुतः पुनर्मादृशां विशिष्टतत्त्वाभिनिवेशो ?, यतोऽहं महताऽपि प्रयत्नेन तत्त्वमार्ग व्याचक्षाणेषु भगवत्सु सुप्त इव मत्त इवोन्मत्त इव सम्मूर्च्छनज इव शोकापन्न इव मूच्छित इव सर्वथा शून्यहृदयो न किञ्चिलक्षयामि यच्च मचेतसो वैसंस्थुल्यकारणं तदाकर्णयन्तु | भगवन्तः -- ततः संजातपश्चात्तापोऽयं जीवो गुरुसमक्षं गर्हते स्वदुश्चरितानि जुगुप्सते स्वदुष्टभाषितानि प्रकटयति पूर्वकालभाविनः समस्तानपि कुविकल्पान् निवेदयत्यादितः प्रभृति निःशेषमात्मवृत्तान्तमिति वदति च - जानाम्यहं भगवन्तो मम हितकरणलालसाः सन्तो बहुशो निन्दन्ति विषयादिकं वर्णयन्ति सङ्गत्यागं प्रशंसन्ति तत्रस्थानां प्रशमसुखातिरेकं लाघन्ते तत्कार्यभूतं परमपदं,
१ निगदितश्च पा०
tional
For Private & Personal Use Only
स्वाकूतकथनं
।। ८५ ।।
www.jainelibrary.org