________________
MO
ततः
उपमिती हदनेन भुवनमप्यात्मकिङ्करं कुर्वन्ति, ये पुनः पापिष्ठाः प्राणिनस्तेऽस्य भगवतो नामापि न जानते, भाविभद्रा एव सत्त्वाः स्वकर्मविवरे- देशविरपीठबन्धः णास्य दर्शनमासादयन्ति, यतश्च त्वमेतावतीं कोटिमध्यारूढोऽतस्त्वया प्रतिपन्न एव भावतो भगवान , केवलं तारतम्यभेदेन सङ्ख्यातीतानि तिदानं
| तस्य प्रतिपत्तिस्थानानि, तेन विशेषप्रतिपत्तिनिमित्तमेषोऽस्माकं यत्नः, यतः सामान्येन जानतेऽप्येनं भगवन्तं जन्तवः सुगुरुसम्प्रदायम- संतोषश्च ॥८४॥
न्तरेण न विशेषतो जानते, तदेवं ते गुरवस्तस्य जीवस्य पुरतो भगवद्गुणान् वर्णयन्ति, तथाऽऽत्मानमपि तत्किङ्करं दर्शयन्ति, तं च जीवं | विशेषतो भगवन्तं नाथतया ग्राहयन्ति, भगवद्विशेषगुणेषु तस्य कौतुकमुत्पादयन्ति, तज्ज्ञानोपायभूतं रागादिभवरोगतानवं कथयन्ति, तस्यापि कारणं ज्ञानदर्शनचारित्ररूपं त्रयं दीपयन्ति, तस्य च प्रतिक्षणमासेवनमुपदिशन्ति, तदासेवनेन भगवदाराधनं निवेदयन्ति, भगवदाराधनेन परमपदप्राप्तिं महाराज्यावाप्तिकल्पां प्रतिपादयन्ति, एवमपि कथयति हितकारिणि गृहीतगुणस्थिरताविधायिनि भगवति धर्मसूरौ यथा 'असौ वनीपकः सूपकारवचनमवगम्यात्मीयाकूतवशेनेत्थमभिहितवान् यथा-नाथाः! किम्बहुनोक्तेन ?, न शक्नोम्यहं कथञ्चनेदं कदन्नं मोक्तुमिति' तथा अयमपि जीवश्चारित्रमोहनीयेन कर्मणा विह्वलीभूतबुद्धिरेवं चिन्तेयत्-अये! यदेवं महता प्रबन्धेन पुनः पुनरेते भगवन्तो मम धर्मदेशनां कुर्वन्ति तन्नूनं मां धनविषयकलत्रादिकमेतदेते त्याजयन्ति, न चाहं त्यक्तुं शक्नोमि, तत्कथयाम्येषां सद्भावं येन निष्कारणं भूयो भूयो भगवन्तः स्वगलतालुशोषमेते न विद्धते, ततस्तथैव स जीवः स्वाभिप्रायं गुरुभ्यः कथयेदिति, ततो यथा 'तेन रसवतीपतिना चिन्तितं न मयाऽयं स्वभोजनत्यागं कारितः, किन्तर्हि?, इदं भेषजत्रयमासेवस्वेत्युक्तस्तत्किमेवमेष भाषते?, अये! स्वाभिप्राय| विडम्बितोऽयं जानीते-मदीयान्नत्याजननिमित्तमेतत् समस्तं वागाडम्बरमिति, ततो विहस्य तेनोक्तं-भद्र ! निराकुलो भव, नाधुना भ-18|॥८४॥ वन्तं किञ्चित्त्याजयामि, तवैव पथ्यमेतत्त्यजनमितिकृत्वा वयं ब्रूमो, यदि पुनर्भवते न रोचते ततोऽत्रार्थे अतः प्रभृति तूष्णीमासिष्यामहे,
For Private Personal use only