________________
उपमितौ पीठबन्धः
॥ ८३ ॥
Jain Education
तिस्तावदस्मै दीयतां, तत्पालनेनोपलब्धगुणविशेषः स्वयमेव सर्वसङ्गपरित्यागं करिष्यतीत्याकलय्य तथैव कुर्वन्ति, तदनेनैतदुक्तं भवति — अयमत्र क्रमः - प्ररूप्य प्रथमं प्रयत्नतः सर्वविरतिं ततः सर्वथा तत्करणपराङ्मुखमुपलभ्य जीवं देशविरतिः प्ररूपणीया देया वा, प्रथमं पुनर्देशविरतिप्ररूपणे क्रियमाणे तस्यामेव प्रतिबन्धं विदध्यादयं जीवः, साधोश्च सूक्ष्मप्राणातिपातादावनुमतिः स्यादिति, ततस्तस्या | देशविरतेः पालनं परमान्नलेशभक्षणतुल्यं विज्ञेयं, तदुपयोगेनैवास्य जीवस्य प्रशाम्यति मनाग् विषयाकाङ्क्षालक्षणा बुभुक्षा, तनूभवन्ति रागादयो भावरोगाः, प्रवर्द्धते ज्ञानदर्शनसंपादितात् समर्गलतरं स्वाभाविकस्वास्थ्यरूपं प्रशमसुखं, संजायते सद्भावनया मनःप्रसादः प्रादुर्भवति तद्दायकेषु गुरुषु परमोपकारिणो ममैत इति भावयतो भक्तिः, अभिधत्ते च तानेष जीवस्तदान, यदुत — यूयमेव में नाथाः, यैरहमेवं | दुर्दारुकल्पतया गाढमकर्मण्योऽपि स्वसामर्थ्येन कर्मण्यतां प्राप्य गुणभाजनतां नीत इति, ततस्तदनन्तरं यथा 'तेन सूदेन तं वनीपकमुपवेश्य मधुरवचनैस्तस्य मनः प्रह्लादयता वर्णिता महाराजगुणाः दर्शितञ्चात्मनोऽपि तद्भृत्यभावः प्राहितः सोऽपि विशेषतस्तदनुचरत्वं समुत्पादितं तस्य महानृपतेरेव विशेषगुणेषु कुतूहलं, कथितस्तत्परिज्ञानहेतुर्व्याधितनुभावः, प्रकाशितं तस्यापि कारणं भेषजत्रयं, समादिष्टः प्रतिक्षणं तस्य परिभोगः, दीपितं तत्परिभोगबलेन महानरेन्द्राराधनं, प्रतिपादितं महानरेन्द्राराधकानां तत्समानमेव महाराज्यमिति' तथा धर्मगुरवोऽपि ज्ञानदर्शनसंपन्नं प्रतिपन्नदेशविरतिमप्येनं जीवमुपलभ्य विशिष्टतरस्थैर्यसम्पादनार्थं समस्तमेतदाचरन्त्येव, तथाहि ते तं प्रत्येवं ब्रूयुः, यथा - भद्र ! यदुक्तं भवता 'यदुत यूयमेव मे नाथा' इति युक्तमेतद्भवादृशां, किन्तु साधारणं नैवं वक्तव्यं, यतो भवतोऽस्माकं च परमात्मा सर्वज्ञ एव भगवान् परमो नाथः, स एव हि चराचरस्यास्य त्रिभुवनस्य पालकतया नाथो भवितुमर्हति, विशेषतः पुनर्ये तत्प्रणीतेऽत्र ज्ञानदर्शनचारित्रप्रधाने दर्शने वर्त्तन्ते जन्तवस्तेषामसौ नाथः, अस्यैव किङ्करभावं प्रतिपद्य महात्मानः केवलराज्यासा
For Private & Personal Use Only
देशविर - तिदानं
संतोषश्च
ततः
॥ ८३ ॥
Inelibrary.org