________________
उपमितौ पीठबन्धः ॥८२॥
मपि निर्वाहकमित्युच्यते, सर्वानर्थसार्थप्रवर्तकाश्चैते धनादयः, तस्मान्नैतेषु सुन्दरा निर्वाहकत्वबुद्धिः, न चेयं प्रकृतिर्जीवस्य, यतोऽनन्तज्ञान- धर्मस्य दर्शनवीर्यानन्दरूपोऽयं जीवः, अयं तु धनविषयादिषु प्रतिबन्धोऽस्य जीवस्य कर्ममलजनितो विभ्रम इति तत्त्ववेदिनो मन्यन्ते, अत एव | धनादेश्च चारित्रपरिणामोऽपि तावत्कादाचित्को यावज्जीववीर्य नोल्लसति, तदुल्लासे पुनः स एव निर्वाहको भवितुमर्हतीत्यतो विदुषा तत्रैव यत्नो विधेयः, निर्वाहकातद्बलेनैव महापुरुषा अपहस्तयन्ति परीषहोपसर्गान् अवधीरयन्ति धनादिकं निर्दलयन्ति रागादिगणं उन्मूलयन्ति कर्मजालं तरन्ति संसारसागरं निर्वाहतिष्ठन्ति सततानन्देऽनन्तकालं शिवधाम्नीति, किं च-मत्संपादितेन ज्ञानेन किं न जनितस्तवाज्ञानतमोविलयः ? किं वा दर्शनेन नापास्तो कत्वं विपर्यासवेतालो? येन मद्वचनेऽप्यविश्रब्धबुद्धिरिव विकल्पं कुरुषे, तस्माद्भद्र! विमुच्येदं भववर्द्धनं धनादिकमङ्गीकुरु मम दययोपनीतमेतच्चारित्रं येन संपद्यते ते निःशेषलेशराशिविच्छेदः, प्राप्नोषि च शाश्वतं स्थानमिति । ततो यथा 'महाप्रयत्नेनापि ब्रुवाणे तस्मिन् रसवतीपतावि-द |तरेणाभिहितं, यदुत-न मयेदं स्वभोजनं मोक्तव्यं, यद्यत्र सत्येव दीयते ततो दीयतामात्मभोजनमिति' तथाऽयमपि जीवः सद्धर्मगुरुभिरेवं भूयो । भूयोऽभिधीयमानोऽपि गलिरिव बलीवर्दः पादप्रसारिकामवलम्ब्येत्थमाचक्षीत-भगवन्नाहं धनविषयादिकं कथञ्चन मोक्तुं पारयामि, यद्यत्र विद्यमानेऽपि भवति किञ्चिच्चारित्रं तन्मे दीयतामिति, ततो यथा 'विज्ञाय तस्य रोरस्याग्रहविशेषं स सूरि(द)श्चिन्तयति स्म-नास्येदानीमन्यः शिक्षणोपायोऽस्ति, ततोऽस्मिन् सत्येव दीयता, पश्चाज्ज्ञातमदीयान्नगुणः स्वयमेवैतत्कदन्नमेष विहास्यति, एवं च विचिन्त्य दापितं तत्तेन, भुक्तमितरेण, तदुपयोगेन शान्ता बुभुक्षा, तनूभूता रोगाः, प्रवर्द्धितम जनसलिलजनितादधिकतरं सुखं, जातो मनःप्रसादः, प्रादुर्भूता तद्दायके तत्र पुरुषे भक्तिः, अभिहितश्चासौ तेन, यथा-'भवानेव मे नाथो, येनाहं भाग्यविकलोऽप्येवमनुकम्पित' इति, तथा धर्मगुरवो- दा॥८२॥ Misप्येवं बद्धाग्रहत्वेनामुञ्चति धनविषयादिकमत्र जीवे परिकलयन्ति-न शक्यते तावदयमिदानीं सर्वविरतिं ग्राहयितुं, तदेवं स्थिते देशविर
Jain Educa
t
ional
For Private & Personel Use Only
jainelibrary.org