SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥८२॥ मपि निर्वाहकमित्युच्यते, सर्वानर्थसार्थप्रवर्तकाश्चैते धनादयः, तस्मान्नैतेषु सुन्दरा निर्वाहकत्वबुद्धिः, न चेयं प्रकृतिर्जीवस्य, यतोऽनन्तज्ञान- धर्मस्य दर्शनवीर्यानन्दरूपोऽयं जीवः, अयं तु धनविषयादिषु प्रतिबन्धोऽस्य जीवस्य कर्ममलजनितो विभ्रम इति तत्त्ववेदिनो मन्यन्ते, अत एव | धनादेश्च चारित्रपरिणामोऽपि तावत्कादाचित्को यावज्जीववीर्य नोल्लसति, तदुल्लासे पुनः स एव निर्वाहको भवितुमर्हतीत्यतो विदुषा तत्रैव यत्नो विधेयः, निर्वाहकातद्बलेनैव महापुरुषा अपहस्तयन्ति परीषहोपसर्गान् अवधीरयन्ति धनादिकं निर्दलयन्ति रागादिगणं उन्मूलयन्ति कर्मजालं तरन्ति संसारसागरं निर्वाहतिष्ठन्ति सततानन्देऽनन्तकालं शिवधाम्नीति, किं च-मत्संपादितेन ज्ञानेन किं न जनितस्तवाज्ञानतमोविलयः ? किं वा दर्शनेन नापास्तो कत्वं विपर्यासवेतालो? येन मद्वचनेऽप्यविश्रब्धबुद्धिरिव विकल्पं कुरुषे, तस्माद्भद्र! विमुच्येदं भववर्द्धनं धनादिकमङ्गीकुरु मम दययोपनीतमेतच्चारित्रं येन संपद्यते ते निःशेषलेशराशिविच्छेदः, प्राप्नोषि च शाश्वतं स्थानमिति । ततो यथा 'महाप्रयत्नेनापि ब्रुवाणे तस्मिन् रसवतीपतावि-द |तरेणाभिहितं, यदुत-न मयेदं स्वभोजनं मोक्तव्यं, यद्यत्र सत्येव दीयते ततो दीयतामात्मभोजनमिति' तथाऽयमपि जीवः सद्धर्मगुरुभिरेवं भूयो । भूयोऽभिधीयमानोऽपि गलिरिव बलीवर्दः पादप्रसारिकामवलम्ब्येत्थमाचक्षीत-भगवन्नाहं धनविषयादिकं कथञ्चन मोक्तुं पारयामि, यद्यत्र विद्यमानेऽपि भवति किञ्चिच्चारित्रं तन्मे दीयतामिति, ततो यथा 'विज्ञाय तस्य रोरस्याग्रहविशेषं स सूरि(द)श्चिन्तयति स्म-नास्येदानीमन्यः शिक्षणोपायोऽस्ति, ततोऽस्मिन् सत्येव दीयता, पश्चाज्ज्ञातमदीयान्नगुणः स्वयमेवैतत्कदन्नमेष विहास्यति, एवं च विचिन्त्य दापितं तत्तेन, भुक्तमितरेण, तदुपयोगेन शान्ता बुभुक्षा, तनूभूता रोगाः, प्रवर्द्धितम जनसलिलजनितादधिकतरं सुखं, जातो मनःप्रसादः, प्रादुर्भूता तद्दायके तत्र पुरुषे भक्तिः, अभिहितश्चासौ तेन, यथा-'भवानेव मे नाथो, येनाहं भाग्यविकलोऽप्येवमनुकम्पित' इति, तथा धर्मगुरवो- दा॥८२॥ Misप्येवं बद्धाग्रहत्वेनामुञ्चति धनविषयादिकमत्र जीवे परिकलयन्ति-न शक्यते तावदयमिदानीं सर्वविरतिं ग्राहयितुं, तदेवं स्थिते देशविर Jain Educa t ional For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy