SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥ ८१ ॥ Jain Educat द्देशना जीवयोग्यताम् । यथा स्वस्थानमाधत्ते, शिलायामपि मृद्घटः ॥ १ ॥ यः संसारगतं जन्तुं, बोधयेज्जिनदेशिते । धर्मे हितकरस्तस्मानान्यो जगति विद्यते ॥ २ ॥ विरतिः परमो धर्मः, सा चेन्मत्तोऽस्य जायते । ततः प्रयत्नसाफल्यं, किं न लब्धं मया भवेत् ? ॥ ३ ॥' अन्यच्च - 'महान्तमर्थमाश्रित्य यो विधत्ते परिश्रमम् । तत्सिद्धौ तस्य तोषः स्यादसिद्धौ वीरचेष्टितम् ॥ ४ ॥ तस्मात्सर्वप्रयत्नेन, पुनः प्र त्याय्य पेशलैः । वचनैर्बोधयाम्येनं, गुरुश्चित्तेऽवधारयेत् ॥ ५ ॥' ततो यथा 'तेन सूपकारेण तस्मै भिक्षाचराय निवेदिताः पुनर्विशेषतः कदन्नदोषाः, उपपादिता तस्य युक्तितस्त्याज्यरूपता, दूषितं कालान्तरे तदभिप्रेतं तस्य निर्वाहकत्वं प्रशंसितमात्मीयं परमान्नं, प्रकटितं तस्य सर्वदा दानं समुत्पादितो महाप्रभावाञ्जनसलिलदायकत्वनिदर्शनेनात्मविश्रम्भातिरेकः, अभिहितञ्चासौ द्रमकः - किं बहुनानेन ?, मुश्चेदं स्वभोजनं गृहाणेदममृतकल्पं मदीयमन्नमिति' तथा सद्धर्मसूरयोऽपि सर्व कुर्वन्ति, तथाहि —— तेऽपि जीवाय निवेदयन्ति धनविषयकलत्रादे रागादिहेतुतां दीपयन्ति कर्मसञ्चयकारणतां, प्रकाशयन्ति दुरन्तानन्तसंसारनिमित्ततां, वदन्ति च यथा— भद्र! यत एव क्लेशेनोपार्ज्यन्ते | खल्वेते धनविषयादयः क्लेशेन चानुभूयन्ते पुनश्चागामिनः क्लेशस्य कारणभावं भजन्ते अत एवैते परित्यागमर्हन्ति, अन्यच्च — भद्र ! | तवाप्येते मोह विपर्यासितचेतसि सुन्दरबुद्धिं जनयन्ति, यदि पुनस्त्वं चारित्ररसमास्वादयसि ततोऽस्माभिरनुक्त एव नैतेभ्यो मनागपि स्पृहसे, को हि सकर्णकोऽमृतं विहाय विषमभिलषति ?, यत्पुनरस्मदीयोपदेशसंपाद्यस्य चारित्रपरिणामस्य कादाचित्कत्वेनानिर्वाहकत्वं धनविषयकलत्रादेस्तु प्रकृतिभावगमनेन सदाभावितया च निर्वाहकत्वं मन्यसे तदपि मा मंस्थाः, यतो धनादयोऽपि धर्मरहितानां न सकलकालभाविनो भवन्ति, भवन्तोऽपि न प्रेक्षापूर्वकारिणा निर्वाहकतयाऽङ्गीकर्तव्याः, न हि समस्तरोगप्रकोपनहेतुरपध्यान्नं सकलकालभावुक१ चेन्मत्तोऽस्य प्रजायते प्र० ational For Private & Personal Use Only धर्मस्य धनादेश्च निर्वाहका निर्वाहकत्वं ॥ ८१ ॥ www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy