________________
उपमितौ पीठबन्धः
॥ ८० ॥
Jain Education
कारयन्ति ततोऽस्य जीवस्य संजायते दैन्यं, ततोऽयं ब्रूते — सत्यमेतत्सर्वं यदाज्ञापयन्ति भगवन्तः, किन्तु श्रूयतां भवद्भिरेका मदीया विज्ञप्तिका—गृद्धोऽयमात्मा मदीयो गाढं धनविषयादिषु, न शक्यते तेभ्यः कथञ्चिन्निवर्त्तयितुं, म्रियेऽहं त्यागे नूनमेतेषां महता च क्लेशेन मयैते समुपार्जिताः, तत्कथमहमेतानकाण्ड एव मुश्चामि किं च – मादृशाः प्रमादिनो न युष्माभिरुपदिष्टाया विरतेः स्वरूपमवबुध्यन्ते, किन्तर्हि ?, मादृशामिदमेव कालान्तरेऽपि धनविषयादिकं चित्ताभिरतिकारणं, युष्मदीयं पुनरनुष्ठानं राधावेधकल्पं, किं तेन मादृशां ?, भगवतामप्यस्थान एवायं निर्बन्धः, तथाहि - 'महताऽपि प्रयत्नेन तत्त्वे शिष्टेऽपि पण्डितैः । प्रकृतिं यान्ति भूतानि, प्रयासस्तेषु निष्फलः ॥ १ ॥ अथैवमपि स्थिते भगवतामाग्रहः, ततो दीयतामेतेषु धनविषयादिषु विद्यमानेषु यदि देयमात्मीयं चारित्रमितरथा पर्याप्तं ममानेनेति, ततञ्चैवं वदति सत्यस्मिन् जीवे यथा 'तेन रसवतीपतिना तं द्रमकं परमान्नग्रहणपराङ्मुखमवलोक्य चिन्तितं यदुत — पश्यताहो मोहसामर्थ्यं, यदेष रोरः सर्वव्याधिकरेऽत्र कदन्नके सक्तबुद्धिर्मामकं परमान्नमवधीरयति, निश्चितं च प्रागेव मया, यथा नास्य वरा - कस्यायं दोषः, किं तर्हि ?, चित्तवैधुर्यकारिणां रोगाणां, अतः पुनरेनं शिक्षयामि विशेषेण वराकं, यद्ययं प्रत्यागतचित्तः परमान्नमिदं गृहीयात् ततोऽस्य महानुपकारः संपद्येतेति तथा सद्धर्मगुरवोऽपि चिन्तयन्ति — यदुतापूर्वरूपोऽयमस्य जीवस्याहो महामोहः, यदयमनन्तदुःखहेतौ रागादिभावरोगवृद्धिकरेऽस्मिन्विषयधनादिके विनिविष्टबुद्धिर्जानन्नपि भगवद्वचनमजानान इव श्रद्दधानोऽपि जीवादितत्त्वमश्रदधान इव न मयोपदिश्यमानां निःशेषक्लेशविच्छेदकारिकां विरतिमुररीकुरुते, यदिवा नास्यायं तपस्विनो दोषः, किन्तर्हि ? कर्मणामिति, तान्येवैनं जीवं विसंस्थलयन्ति, अतो नास्माभिरेतत्प्रतिबोधनप्रवृत्तैरस्यविधेयतामुपलभ्य निर्वेदः कार्यः, तथाहि - ' अनेकशः कृता कुर्या -
१ प्राणिनो प्र. २ अशक्यशिक्षणीयतां.
For Private & Personal Use Only
सञ्जातविश्वासोपि मूर्च्छति धनादिषु
सद्धर्मगुरूणां पुन
श्चिन्ता
॥ ८० ॥
Snelibrary.org