SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः जीवंप्रति धर्मगुरूणां कटुवाक्यानि ॥७८॥ न्यवधीर्य जरत्काचशकलकल्पेषु विषयेषु प्रतिबन्धं विधत्ते, ततस्ते गुरवः प्रादुर्भूतप्रणयकोपा इव तं प्रमादपरं जीव मित्थमाचक्षते अयि! | "ज्ञानदर्शनविदूषक! केयं भवतोऽनात्मज्ञता? किमिति प्रतिक्षणमस्मानारारट्यमानान् भवान्न लक्षयति?, दृष्टा बहवोऽस्माभिरन्येऽप्यकल्याण"भाजनभूताः प्राणिनः, केवलं तेषामपि मध्ये शेखरायितं भवता, यतस्त्वं जानन्नपि भगवद्वचनं श्रद्दधानोऽपि जीवादिपदार्थसार्थ विद्य"मानेऽपि मादृशे प्रोत्साहके लक्षयन्नपीदृशसामग्र्याः सुदुर्लभतां भावयन्नपि संसारदुरन्ततां परिकलयन्नपि कर्मदारुणतां बुद्ध्यमानोऽपि "रागादिरौद्रता तथापि समस्तानर्थसार्थप्रवर्तकेषु कतिपयदिवसवर्तिषु तुषमुष्टिनिःसारेषु विषयेषु सततं रज्यसे, न पुनरस्माभिरनर्थगर्त्त“पातिनं भवन्तमवगम्य दययोपदिश्यमानामेनां सकलक्लेशदोषविरेककारिणी भागवतीं समस्तपापविरतिं भवानवहेलयाऽपि विलोकयति, अ"न्यच्च-एतदपि न लक्षितं भवता यदर्थमेषोऽस्माकं भवन्तं प्रति महानादरः, तदाकर्णय अत्रापि यत्कारणं-यतस्त्वं सज्ज्ञानदर्शनयुक्ततया "सर्वज्ञशासनाभ्यन्तरभूतो वर्त्तसे यतश्च प्रथमावसरेऽपि भगवन्मतमवलोक्य जातस्ते प्रमोदः तद्दर्शनेन च लक्षिताऽस्माभिस्त्वयि भवन्ती "परमात्मावलोकना ततो वयं भगवदनुगृहीतोऽयमितिकृत्वा तवोपर्यादरवन्तः, युज्यते च भगवद्नुचराणां तदभिमतेषु पक्षपातः कर्त्त, | "ये तु जीवाः सर्वज्ञशासनमन्दिरमद्यापि नावगाहन्ते, कथश्चित्प्रविष्टा अपि तत्र न तद्दर्शनेन हृष्यन्ति अत एव च परमात्मावलोकनाया "बहिर्भूता लक्ष्यन्ते तांस्तथाभूताननन्तानपि जीवान् पश्यन्तोऽपि च यदुदासीनभावं भजामहे, नोचितास्ते खल्वादरकरणस्य, अयं चेयन्तं "कालं यावदवष्टम्भोऽस्माकमासीत्-किलामुनोपायेन ये योग्याः सन्मार्गावतरणस्येति निश्चीयते ते न कदाचन व्यभिचरन्ति, यावता भ"वताऽयमनेकसत्त्वेषु सुनिश्चितोऽप्यस्माभिरुपायो विपरीतमाचरता व्यभिचारितो वर्तते, ततो भो दुर्मते! मैवं विधेहि, कुरुष्वाधुनापि यदहं १°विद्वेषक प्र. ॥७८॥ Jain Educa t iona For Private & Personel Use Only Tejainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy