________________
उपमितौ पीठबन्धः
॥७७॥
समस्तशास्त्रार्थविशारदोऽपि महामूर्खचूडामणिरिव वर्त्तते, ततश्चास्य जीवस्य प्रतिभाति मुत्कलंचारिता, रोचते तस्मै यथेष्टचेष्टा, बिभेत्ययं मोहवितव्रतनियमनियत्रणायाः, किम्बहुनोक्तेन ?, न शक्नोत्ययं जीवस्तदा काकमांसभक्षणादपि निवृत्तिं विधातुमिति । एवं च स्थिते यत्तदुक्तं यदुत- कोद्विरत्य'तं रोरं मूर्छातिरेकेण पुनः पुनः स्वभोजनभाजने दृष्टिं पातयन्तमुपलभ्य स धर्मबोधकराभिधानो रसवतीपतिस्तस्याभिप्रायमवगम्य मनाक् भाव: सपरुषमित्थमभिहितवान्-अरे द्रमक ! दुर्बुद्धे ! केयं भवतो विपरीतचारिता ?, किमितीदं परमान्नं कन्यकया प्रयत्नेनापि दीयमानं त्वं नावबुद्ध्यसे ? भवन्त्यन्येऽपि पापिनो रोराः, केवलं भवता सदृशोऽन्यो निर्भाग्यो नास्तीति मे वितर्कः, यस्त्वमत्र तुच्छे कदन्नके प्रतिबद्धचित्तः |
द्रमकप्रति सन्नमृतास्वादमेतन्मया दाप्यमानमपि परमान्नं न गृहासि, अन्यच्च-यतस्त्वमत्र भवने प्रविष्टस्तथेदं दृष्ट्वा मनागाहादितः परमेश्वरेण चाव
सूदस्य लोकितः तेन कारणेन भवन्तं प्रत्यादरोऽस्माकं, ये पुनरस्मात्सद्मनो बहिर्वर्तन्ते जन्तवो ये चेदं विलोक्य न मोदन्ते ये च राजराजेन न निरीक्षितास्तेषां वयं न वार्तामपि पृच्छामो, वयं हि सेवकधर्ममनुवर्तमाना य एव कश्चिन्महानृपतेर्वल्लभस्तत्रैव वाल्लभ्यमाचरामः, अयं चास्माकमवष्टम्भोऽभूत्-किलामूढलक्ष्योऽयं राजा न कदाचनापात्रे मतिं कुरुते, यावता सोऽप्यस्मदवष्टम्भोऽधुना भवता विपरीतचारिणा वितथ इव सम्पादितः, तदिदमवगम्य त्यजेदं वैपरीत्यं, हित्वेदं कदन्नं गृहाणेदं परमानं, यन्माहात्म्येनैते पश्य सर्वेऽत्र सद्मनि वर्त्तमाना जन्तवोऽमृततृप्ता इव मोदन्त इति' एतदपि समस्तमत्र जीवव्यतिकरे सुगुरुराचरत्येव, तथाहि-यदाऽयं जन्तुराविर्भूतज्ञानदर्शनोऽपि कर्मपरतत्रतया न स्तोकमात्रामपि विरतिं. प्रतिपद्यते तदाऽमुं तथाभूतं विषयेषु गाढं मूर्छितचित्ततयाऽभिरममाणमुपलभ्य सद्धर्मगुरूणां भवत्येवंविधोऽभिसन्धिः यदुत-केयमस्यात्मवैरिता? किमित्ययं रत्नद्वीपप्राप्तनिर्भाग्यपुरुष इवानर्धेयरत्नराशिसदृशानि ब्रतनियमाचरणा-M॥ ७७ ॥
अविरतत्वेनावस्थानं. २ पारमेश्वर वि०१ प्र.
परुष वचनं
-
Jain Educat
i onal
For Private & Personel Use Only
-
Marjainelibrary.org