________________
उपमिती पीठबन्धः
सम्यग्दृष्टे
यानि चिन्तयति, अभाषितव्यानि भाषते, अनाचरणीयानि समाचरति, ते तु कुविकल्पाः सहजा इत्यभिधीयन्ते, तत्राभिसंस्कारिकाः
प्रथमसुगुरुसंपर्कप्रभावादेव कदाचिन्निवर्तेरन् , एते पुनः सहजा यावदेष जीवो मिथ्यात्वोपप्लुतबुद्धिस्तावन्न कथञ्चिन्निवर्तन्ते, यदि परम&ाधिगमजसम्यग्दर्शनमेव प्रादुर्भूतमेतान्निवर्तयतीति । यत्पुनरभिहितं यदुत 'तस्य द्रमकस्य तस्मिन्नञ्जनसलिलदायके पुरुषे सजातविश्रम्भस्यापि
महोपकारितां चिन्तयतस्तथापि तत्रात्मीये कदन्नके याऽत्यन्तमूर्छा सा गाढं भावितत्वान्न कथञ्चिन्निवर्तत इति तदेतज्जीवेऽपि योजनीयं, तथाहि-यद्यपि क्षयोपशम (ममुप) गतं ज्ञानावरणं दर्शनमोहनीयं च समुत्पन्नं सम्यगज्ञानं सम्यग्दर्शनं च, अत एव निवृत्ता भवप्रपञ्चगोचरा तत्त्वबुद्धिः, संजातो जीवादितत्त्वाभिनिवेशः, गृहीताः परमोपकारकारितया सम्यग्ज्ञानदर्शनदायिनो भगवन्तः सद्धर्मगुरवः, तथाप्यस्य जीवस्य यावदास्ते समुदीर्ण कषायद्वादशकं, यावच्च प्रबलमद्यापि नोकषायनवकं, तावदनादिभवाभ्यासवासनापाटवपरायत्ततया प्रवर्त्तमानामेतेषु धनविषयकलत्रादिषु कदन्नकल्पेषु मूर्छामेष जीवो न निवारयितुं पारयति, यतोऽस्य जीवस्य कुशास्त्रश्रवणसंस्कारजा महाण्डसमुद्भूतं त्रिभुवनमेतदित्यादयो मोहवितर्काः प्रवर्त्तन्ते, ये च सहजा अपि धनादिषु परमार्थदर्शितया तत्संरक्षणगोचरा अशङ्कनीयेष्वपि गुर्वादिषु शङ्काकारिणो मिथ्यादर्शनोदयप्रभवाः कदभिप्रायाः प्रादुर्भवन्ति ते मरुमरीचिकावक्रचुम्बिन इव जलकल्लोलमालाप्रतिभासिनो मिथ्याज्ञानविशेषाः तत्प्रत्यनीकार्थोपस्थापकेन प्रमाणान्तरेण बाध्यमानाः सम्यग्दर्शनोत्पत्तिकाले निवर्तन्ते, यः पुनरेष धनविर्षयादिषु मूर्छालक्षणो मोहः सोऽपूर्वरूपो, यतोऽयं दिङ्मोह इव तत्त्वधियाऽपि सार्द्धमव्याहत एवास्ते, अनेन हि मोहितोऽयं जीवो जानन्नपि सकलं कुशाग्रलग्नजललवतरलं न जानीते, पश्यन्नपि धनहरणस्वजनमरणादिकं न पश्यतीव, पटुप्रज्ञोऽपि जडबुद्धिरिव चेष्टते,
१ कनका प्र.
पायोदयान्मोहवितर्काः
।। ७६॥
Jain Education International
For Private & Personel Use Only
Alibrary.org