________________
उपमितौ
पीठबन्धः
॥ ४॥
च्यते ॥ ४९ ॥ तस्मादेषा कथा शुद्धधर्मस्यैव विधास्यते । भजन्ती तद्गुणापेक्षां क्वचित्संकीर्णरूपताम् ॥ ५० ॥ अन्यच्च — संस्कृता प्राकृता चेति, भाषे प्राधान्यमर्हतः । तत्रापि संस्कृता तावदुर्विदग्धहृदि स्थिता ॥ ५१ ॥ बालानामपि सद्बोधकारिणी कर्णपेशला । तथापि प्राकृता भाषा, न तेषामपि भासते ॥ ५२ ॥ उपाये सति कर्त्तव्यं सर्वेषां चित्तरञ्जनम् । अतस्तदनुरोधेन, संस्कृतेयं करिष्यते ॥ ५३ ॥ न चेयमतिगूढार्था, न दीर्घेर्वाक्यदण्डकैः । न चाप्रसिद्धपर्यायैस्तेन सर्वजनोचिता ।। ५४ ।। कथाशरीरमेतस्या, नान्नैव प्रतिपादितम् । भवप्रपञ्चो व्याजेन, यतोऽस्यामुपमीयते ॥ ५५ ॥ यतोऽनुभूयमानोऽपि परोक्ष इव लक्ष्यते । अयं संसारविस्तारस्ततो व्याख्यानमर्हति ॥ ५६ ॥ अथवा — भ्रान्तिव्यामोहनाशाय, स्मृतिबीजप्रबोधनम् । कथार्थसंग्रहं कृत्वा, शरीरमिदमुच्यते ॥ ५७ ॥ द्विविधेयं कथा तावदन्तरङ्गा तथेतरा । शरीरमन्तरङ्गायास्तत्रेदमभिधीयते ॥ ५८ ॥ - प्रस्तावास्तावदष्टात्र, विधास्यन्ते परिस्फुटाः । प्रत्येकं तेषु वक्तव्यो, योऽर्थस्तं मे निबोधत ॥ ५९ ॥ - प्रस्तावे प्रथमे तावन्निबद्धा येन हेतुना । इयं कथा मयेदृक्षा, स हेतुः प्रतिपाद्यते ॥ ६० ॥ (१) । द्वितीये भव्यपुरुषो, मानुष्यं प्राप्य सुन्दरम् । यथाऽऽत्महितजिज्ञासुः, समासाद्य सदागमम् ॥ ६१ ॥ तदन्तिकस्थः संसारिजीवस्य चरितं यथा । श्रुत्वाऽगृहीतसंकेताव्याजात्तेनैव सूचितम् ।। ६२ ।। तिर्यग्वक्तव्यताबद्धं, सार्द्धं प्रज्ञाविशालया । विचारयति निःशेषं, तदिदं प्रतिपाद्यते ॥ ६३ ॥ चतुर्भिः कलापकम् ।। (२) । तथा तृतीयप्रस्तावे, हिंसाक्रोधवशानुगः । स्पर्शनेन्द्रियमूढश्च यथा दुःखैर्विबाधितः ॥ ६४ ॥ संसारिजीवः संसारे, भ्रष्टो मानुष्यजन्मतः । इदं संसारिजीवस्य मुखेनैव निवेद्यते ॥ ६५ ॥ युग्मम् । (३) । पुनश्चतुर्थप्रस्तावे, मानजिह्यानृतेषु भोः ! । रक्तः संसारिजीवोऽसौ, यथा दुःखैः प्रपीडितः ॥ ६६ ॥ भूयश्चानन्तसंसारमपारं दुःखपूरितः । यथा भ्रान्त इदं सर्व, सविशेषं निग
१ धर्मंप्राप्त्यानुकूल्येन. २ दुर्गमै रित्यध्याहारः.
Jain Education international
For Private & Personal Use Only
अधिकारोद्देशः
५५-७७
|| 8 ||
jainelibrary.org