________________
उपमिती पीठबन्धः
सम्यग्दर्शनस्वरूपं
॥७३॥
"भावो निरुपचरितः साक्षाद्धर्म एवाभिधीयते, ये त्वमी जीववर्तिनः समस्ता अपि सुन्दरविशेषाः ते कार्ये कारणोपचाराद्धर्मशब्देन गीयन्ते, | "यथा ममेदं शरीरं पुराणं कर्मेति” । ततः पुनरेष जीवो ब्रूयात्-भगवन् ! अत्र त्रये कतमत्पुनः पुरुषेणोपादेयं भवति ?, ततो धर्मगुरुरभिधीत-भद्र! सदनुष्ठानमेव, तस्यैवेतरद्वयसम्पादकत्वात् , स ब्रूयात्-किं पुनस्तत्सदनुष्ठानम् ?, ततः सद्धर्मसूरयोऽभिदधीरन्सौम्य! साधुधर्मो गृहिधर्मश्च, तस्य पुनर्द्विविधस्यापि मूलं सम्यग्दर्शनं, ततोऽयं जीवो वदेत्-भगवन् ! उपदिष्टमासीदेतत्सम्यग्दर्शनं प्राग्भवता, किन्तु तदा मया नावधारितं, तदधुना कथयत-किमस्य स्वरूपमिति?, ततः सङ्केपेण प्रथमावस्थोचितमस्य पुरतो धर्मगुरवः सम्यग्दर्शनस्वरूपं वर्णयेयुः, यथा-"भद्र ! यो रागद्वेषमोहादिरहितोऽनन्तज्ञानदर्शनवीर्यानन्दात्मकः समस्तजगदनुग्रहप्रवणः सकलनिष्कलरूप: |"परमात्मा स एव परमार्थतो देव इति बुद्धया तस्योपरि यद्भक्तिकरणं तथा तेनैव भाषिता ये जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमो|"क्षाख्या नव पदार्थाः ते अवितथा एवेति या प्रतिपत्तिः तथा तदुपदिष्टे ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे ये प्रवर्तन्ते साधवः त एव | "गुरवो वन्दनीया इति या बुद्धिस्तत्सम्यग्दर्शनं, तत्पुनर्जीवे वर्तमानं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणैर्बाह्यलिङ्गैर्लक्ष्यते, तथा
"तदङ्गीकृत्य जीवेन सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि समाचरणीयानि भवन्ति, तथा स्थिरता भगवदायत| "नसेवा आगमकुशलता भक्तिः प्रवचनप्रभावना इत्येते पञ्च भावाः सम्यग्दर्शनं दीपयन्ति, तथा शङ्का काङ्घा विचिकित्सा परपापण्डप्रशंसासं"स्तवश्चैते तु तदेव दूषयन्ति, तदेष सकलकल्याणावहो दर्शनमोहनीयकर्मक्षयोपशमादिनाऽऽविर्भूतः खल्वात्मपरिणाम एव विशुद्धसम्यग्दर्शन“मभिधीयते” । एवञ्च कथयता भगवता धर्मसूरिणा सम्यकप्रत्यायितमा सस्तदनुभावादेव विलीनक्लिष्टकर्ममलः सोऽयं जीवः सम्यग्दर्शनं
१ मनाः प्र०
॥७३ ।।
Jain Educat
For Private & Personal Use Only
D
ainelibrary.org